Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 57
________________ ( ४६ ) व्याख्या - एगागीत्यादि, तत्रैकाकी अद्वितीयः श्रीवीरजिनः सिद्धिं गतः, त्रयस्त्रिंशता साधुभिः सह पार्श्वप्रभुः शिवं भेजे, षट्त्रिंशदधिकैः पञ्चभिः शतैः सह नेमिजिनः सिद्धिं गतः, श्रीमल्लिस्वामी सुपार्श्वजिनश्च पञ्चभिः श्रमणशतैः समं शिवं भेजे, पञ्चभिः शतैः श्रीवासुपूज्यजिनचन्द्रः सिद्धः, श्रीधैर्मजिनोऽष्टभिः शतैः साकं परिनिर्वृत्तः, पद्मप्रभख्युत्तरैरष्टभिः शतैः सिद्धिसौधमध्यारुरोह, `श्रीशान्तिजिनस्तु नवभिः श्रमणशतैः समं मुक्तिमगात्, षड्भिः सहस्रैः परिवृतो विमलो निर्वृतिमियत्ति हम, तथा ॠषभः प्रथमतीर्थकृत् दशभिः सहस्रैः श्रेयः श्रियमशिश्रयत्, अनन्तजिज्जिनः सप्तभिः सहस्रैर्युतः परमानन्दपदं प्रपेदे, शेषाः पुनरजितसंभवाऽभिनन्दनसुमतिचन्द्रप्रभसुविधिशीतलश्रेयांसकुन्थुनाथाऽरनाथमुनिसुत्र १ अत्र चाssवश्यक टिप्पनकाराः “ अट्ठसएणं धम्मो' त्ति अष्टोत्तरशतेन साधूनां परिवृतः धर्मः सिद्ध इत्यर्थः, ' पउमाभे तिन्नि अट्ठसय ' पद्मप्रभतीर्थकृद्विषये त्रीण्यष्टोत्तरशतानि साधूनां निवृतानीत्यवगन्तव्यं, त्रिगुणमष्टोतरशतमित्यर्थः, त्रीणि शतानि चतुर्विंशत्यधिकानीति यावत्" इति व्याख्यानयन्ति, प्रवचनसारोद्धारवृहद्वत्तिकर्त्तारोऽप्येवमेव, सप्ततिशतस्थानवृत्तिनिर्मातृमतेन धर्मजिनस्याऽष्टाधिकशतेन पद्मप्रभस्याऽष्टाधिकैस्त्रिभिः शतैर्मोक्ष इति भेदो दृश्यते, अस्माभिस्तु पद्मानन्दकाव्याद्यभिप्रायेणैतत्प्रकरणप्रणेत्रभिप्रायं प्रमाणीकृत्यैवं - व्याख्यातमस्ति विरुद्धं चेत्संशोधनीयं कृपया जैनसिद्धांतविशारदैर्विद्वद्भिरिति ॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80