Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 55
________________ ( ४४ ) वर्णा सिंहवाहना चतुर्मुजा आम्लुम्बीपाशाऽऽलम्बिदक्षिणदोर्द्वया पुत्राङकुशासक्तवामदोर्द्वया च २२,श्रीपार्श्वप्रभोः पद्मावती शासनदेवता स्वर्णाभा कुर्कुटोरगवाहना चतुर्भुजा पद्मपाशावभासिदक्षिणपाणिद्वया फलाङ्कुशाङ्कितवामभुजद्वया च २३, श्रीमद्वर्द्धमानस्वामिनः सिद्धायिका शासनाऽधिष्ठात्री देवता हरिच्छविर्गजवाहनों चतुर्भुजा पुस्तकाऽभययुक्तदक्षिणपाणिन्या बीजपुरकवल्लिकाविराजितवामहस्तद्वया चेति २४, अत्र च प्रकरणकारेण यक्षाणां देवीनां च केवलानि नामान्येवाऽभिहितानि न पुनर्नयनवदनवर्णादिस्वरूपं निरूपितं अस्माभिस्तु बहूपयोगित्वात् ग्रन्थान्तरानुसारेण किश्चित्तदीयमुखवर्णवाहनभुजप्रहरणादिस्वरूपं निरूपितमिति ॥ ५९ । ६० ॥ इदानीं ' सिद्धिट्ठाणं 'ति एकविंशं स्थानं विभणिषुराहअहावयंमि उसभो वीरो पावाइ चंप वसुपुज्जो। उज्जितम्मि उ नेमी सम्मए सेसया सिद्धा ॥ ६१ ॥ व्याख्या-अट्रेत्यादि, श्रीऋषभस्वामी अष्टापदपर्वते, श्रीवीरजिनोऽपापायां पुर्या, वासुपूज्यश्चम्पायां, 'तुः' पुनरर्थे, नेमी जिन अजितगिरौ सिद्धिसौधमध्यारुरोह, शेषाः पुनरजितादयो विंश १ सिंहवाहना २ पाशांभोरहरुद्धवामकरद्रया । - -

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80