Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 54
________________ ( ४३ ) तदक्षिणपाणियुग्मा फलकाऽङ्कुशभृद्वामहस्तद्वितया च १४, श्रीधर्मजिनस्य प्रज्ञप्तिमतान्तरेण पन्नगा कन्दर्पाख्या वा देवी गौराङ्गी मीनवाहना चतुर्मुजा कमलाङ्कशोद्भासमानदक्षिणपाणिद्वया पद्माऽभयदद्वामकरद्वया च १५, श्रीशान्तिनाथस्य निर्वाणी देवी गौरङ्गी स्मेरपङ्कजवाहना चतुर्बाहुः पुस्तकोत्पलमालिदक्षिणपाणिद्वया कमण्डलुकमलाऽलङ्कृतवामकरद्वया च १६, श्रीकुन्थुनिनेशितुरच्युता मतान्तरेण बलाख्या शासनदेवता गोरशरीरा बहिणवाहना चतुर्भुजा , बीजपूरकशूलशालिदक्षिणपाणिद्वया मुषुण्डीकमलकमनीयवामकरद्वया च १७, श्रीअरनाथस्य धारिणी देवी निलाङ्गी नलिनासना चतुमुंजा मातुलिङ्गोत्पलकलितदक्षिणपाणिद्वया पद्माक्षसूत्रभृद्वामभुजद्वया च १८ श्रीमल्लिस्वामिनो वैरोट्या देवी कृष्णवर्णा कमलासना चतुर्भुजा वरदाक्षसूत्रभृद्दक्षिणपाणिद्वया मातुलिङ्गशक्तियुक्तवामकरद्वया च १९, श्रीमुनिसुव्रतस्याऽच्छुप्ता मतान्तरेण नरदत्ता देवता गौरीङ्गी भद्रासनासीना चतुःपाणिर्वरदाक्षसूत्रसमन्वितदक्षिणपाणिद्वया मातुलिङ्गशूलशालिवामकरद्वया च २०,श्रीनमिजिनस्य गान्धारी देवी श्वेततनुहंसवाहना चतुर्भुजा वरदखड्गयुक्तदक्षिणपाणिद्वया बीजपूरशकुन्तकलितवामकरद्वया च २१, श्रीअरिष्टनेमिनोऽम्बिका देवी सुवर्ण १ कनकरुचिः २ आचारदिनकरे त्वन्यथा. ३ कनकद्युतिः ४ कनकरुक

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80