________________
( ४१ )
व्याख्या - देवीओ इत्यादि, तत्र प्रथमतीर्थपतेश्चक्रेश्वरी शासनदेवता मतान्तरेणाऽप्रतिचक्रा सुवर्णसवर्णवर्णा सुपर्णवाहनाऽष्टभुजा चक्रपाशेषुवरदविराजितदक्षिणपाणिचतुष्टया चक्राऽङ्कुशधनुर्वज्रविभषितवामहस्तचतुष्का १, श्री अजितजिनस्याऽजितबलाऽजिता वा देवता कनकेद्युतिर्लोहास नै समासीना चतुर्बाहुर्वरदपाशशालिदक्षिणकरद्वया बीजपूराङ्कुशोद्भासितवामहस्तद्वितया च २, श्रीसम्भवस्वामिनो दुरितारिका देवी गौराङ्गी छगलवाहना चतुर्भुजा वरदाऽक्षसूत्रयुंतदक्षिणदोर्युगा फलाऽभयभृद्वा मकरद्वया च ३ श्रीअभिनन्दनस्य काली देवता श्यामशरीरा कमलवाहना चतुर्हस्ता वरदपाशाङ्कितदक्षिणपाणिद्वया नागाङ्कुशाधिष्ठित वामकरद्वया च ४, श्रीसुमतिनाथस्य महाकाली शासनदेवता कनककान्तिरम्भोरुहासना चतुर्बाहुर्वरदपासभूषितदक्षिण करद्वया मातुलिङ्गाऽङ्कुशयुक्तवामपाणिद्वया च ५, पद्मप्रभस्य श्यामा मतान्तरेणाऽच्युता श्यामाङ्गा नरवाहना चतुर्भुजा वरदपाशैशोभितदक्षिणपाणिद्वया कोर्दण्डाऽभयमण्डितवामहस्तद्वया च ६, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा करीन्द्रवाहना चतुर्भुजा वरदाक्षसूत्रयुक्त दक्षिणपाणिद्वया शूलाऽभय.
१ मतान्तरेण-धवलस्क. २ गोगामिनी. ३ बाण० ४ मातुलिङ्गाङ्कुशयुग्वा महस्तद्वया च.