Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 50
________________ ( ३९ ) यक्षस्त्रिमुखः षण्नयनः कुर्मरथो रक्तच्छविः षड्भुजो मातुलिङ्गगदाऽभयदयुतदक्षिणदोस्त्रयो नकुलाऽम्भोजाऽक्षमालाऽलङ्करिष्णुवामकरत्रयश्च १५, श्रीशांतिनाथस्य गरुडाख्यो यक्षः क्रोडास्यः किरिवाहनः श्यामश्चतुर्मुजो बीजपूराम्बुजभ्राजमानदक्षिणपाणिद्वयो नकुलाऽक्षसूत्रयुक्तवामपाणियुगलश्च १६, श्रीकुन्थोर्गन्धर्वयक्षोऽसिताङ्गो हंसवाहनश्चतुर्बाहुर्वरदपाशकान्वितदक्षिणपाणिद्वयो मातुलिङ्गाङ्कुशशालिवामकरद्वयश्च १७, श्रीअरजिनस्य यक्षेन्द्रो यक्षख्याः षण्मुखः श्यामाङ्गः शङ्खवाहनो द्वादशकरो मातुलिङ्गबाणासिमुद्गरपाशकाभययुक्तदक्षिणपाणिषट्को बभ्रधनुर्वर्मशूलाङ्कुशाऽक्षसूत्राञ्चितवामकरषट्कश्च १ ८,मल्लिस्वामिन: कूबरः कूबेराख्यो वा यक्षश्चतुमुखोऽष्टाक्षः शक्रायुधसवर्णवर्णो दन्तिवाहनोऽष्टपाणिर्वरदपरश्वधशूलाऽभयदयुतदक्षिणपाणिचतुष्टयो बीजपूरकशक्तिमुद्गराऽक्षसूत्राऽ.. धिष्ठितवामहस्तचतुष्कश्च १९, श्रीमुनिसुव्रतस्य वरुणो यक्षस्त्रिनेत्रैश्चतुराननः श्वेताङ्गद्युतिवृषभवाहनो जटामुकुटभूषितोऽष्टबाहुर्मातुलिङ्गगदाबाणशक्तियुक्तदक्षिणपाणिचतुष्को नकुलाऽसूत्रधनुःपरशुसमन्वितवामकरचतुष्टयश्च २०, नमिजिनेशितु कुट्याख्यो यक्षख्यक्षश्चतुर्मुखः स्वर्णरुक् वृषासनोऽष्टबाहुर्मातुलिङ्गशक्तिमुद्गराऽभयद १ मतान्तरे अष्टादशलोचनः २ द्वादशलोचनः ३ पद्म ४ द्वादशाक्षः।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80