Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
( ३७ )
व्याख्या-'जक्खा' त्ति, यक्षा भक्तिदक्षास्तीर्थकृतामिमे, यथा ऋषभस्वामिनो गोमुखो यक्षः कनकातिर्गजवाहनश्चतु नो वरदाक्ष सृग्भाग्दक्षिणपाणिद्वयो मातुलिङ्गपाशभूषितवामकरद्वयश्च १, अजितस्य महायक्षाऽभिधो यक्षः श्यामशरीरः करिवरारूढश्चतुर्मुखोऽष्टबाहुः शक्त्यङ्कुशवीजपूराऽभयदद्वामकरचतुष्टयः पाशाऽक्षसूत्रमुद्गरवरदाऽङ्कितदक्षिणपाणिचतुष्कश्च २,सम्भवजिनस्य त्रिमुखो नामा यक्षस्त्रिमुखस्त्रिनेत्रैः श्यामरुचिहणवाहनः षड्भुजो बभ्रुगदाऽभयदमण्डितदक्षिणपाणित्रयो मातुलिङ्गनागाऽक्षसूत्रसंयुतवामभुजत्रयश्च ३,श्रीअभिनन्दनस्येश्वराख्यो यक्षेश्वराभिवो वा यक्षः श्यामकान्तिर्गजवाहनश्चतुमुंजो मातुलिङ्गाऽससूत्रयुक्तदक्षिणपाणिद्वयो नकुलाऽङ्कुशकलितवामदोर्युगश्च ४, श्रीसुमतिजिनस्य तुम्बुरुर्यक्षस्तार्क्ष्यवाहनः सितद्युतिश्च तुर्बाहुर्वरदशक्तियुक्तदक्षिणपाणिद्वयोगदापाशभासितवामकरद्वयश्च ५, श्रीपद्मप्रभस्य कुसुमाख्यो यक्षो नीलच्छविमंगवाहनश्चतुर्हस्तः फलाऽभयप्रदाऽलङ्कतदक्षिणपाणिद्वयो नकुलाऽससूत्राऽऽश्रितवामकरयुगश्च ६, श्रीसुपार्श्वजिनस्य मातङ्गो यक्षो विनीलर्वणः करीन्द्रवाहनश्चतुर्भुजः बिल्वपाशशालिदक्षिणपाणिद्वयो नैंकुलाङ्कशशोभितवामकरद्वयश्च ७, श्रीचंद्रप्रभस्य विजयो यक्षो नीलाङ्गो हंसवाहनस्त्रिलोचनो,
१ मतांतरे-वृषवाहनः २ नवाक्षः । ३ तुरंग: ४ वज्रा०

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80