Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai

View full book text
Previous | Next

Page 59
________________ ( ४८ ) प्रशस्तिः । प्रस्फूर्जत्तपगच्छ तारकप्रथमोल्ला सनाऽहर्मणिस्तेजस्विमवरोऽजनिष्ट विजयानन्दाभिधः सूरिराट् । गोभिर्दृढक घूकसन्ततिररं यस्याऽतिखिन्ना हृदि नोर्ध्वकर्तुमलं क्षितौ स्ववदनं वादस्य तत् का कथा ? ॥१॥ तच्छिष्यः शान्तमूर्त्तिः श्रमणगणनुतः सद्गुणग्रामधामा जज्ञे विद्वद्वरः श्रीमदमर विजयो दाक्षिणात्योपकारी । कृत्वा मूर्त्तिद्विषां यो हृदयनयनयोरञ्जनं सप्रमाणं दूरीचक्रे दयालुन जिन भवामन्धतां ज्ञानवैद्यः ॥ २ ॥ तत्पादाम्भोरुहमधुकरः स्वल्पधीरेकविंश स्थानेष्वेनां चतुर विजयो बोधिलाभाय वृत्तिम् । चक्रे वर्षे नवयनिधीन्दुममे (१९७९) वैक्रमीये विद्वलोकैर्जयतु सुचिरं शासने वाच्यमाना 11 3 11 यदर्जितं पुण्यमिमां विधाय टीकां मया तेन तनोतु वास । भवे भवेऽन्तःकरणे मदीये श्रेयः श्रियां धाम जिनेन्द्रभक्तिः ॥ श्री एकविंशतिस्थानटीकेयं बोधदीपिका । संशोध्या कृपया सद्भिर्भव्यानां बोधिदीपिका ॥ ४ ॥ समाप्ता

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80