________________
( ४२ )
भृद्वामबाहुद्वया च ७, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिदेवता सुवर्णवर्णा हंसवाहना चतुर्हस्ता खड्गमुद्गरयुतदक्षिणदोर्द्वया फलकपरश्वधशालिवामकरद्वया च ८, श्रीसुविधिस्वामिनः सुतारा देवी गौराङ्गी वृषभवाहना चतुर्मुजा वरदाक्षसूत्रभषितदक्षिणपाणिद्वया कलशाऽङ्कुशकलितवामकरद्वया च ९, श्रीशीतलजिनस्याऽशोका देवी मुद्गाभा कमलवाहना चतुर्मुजा वरदपाशभासितदक्षिणपाणिद्वया फैलाङ्कुशभूषितवा मकरद्वया च १०, श्रीश्रेयांसस्य श्रीवत्सा मतान्तरेण मानवी देवी गौरशरीरा सिंहवाहना चतुर्मुजा वरदभैद्गरोद्यतदक्षिणपाणिद्वया कलशाङ्कुशप्रशस्यवामकरद्वया च ११, श्री वासुपूज्यस्य प्रवरा मतान्तरेण चण्डा देवी श्यामधामदेहा वाहवाहना चतुर्भुजा वरदशक्तियुक्त दक्षिणपाणिद्वया पुष्पगदाधृतवामहस्तयुगला च १२, श्रीविमलस्वामिनो विजया मतान्तरेण विदिता देवी स्वर्णाभा कमलवाहना चतुर्भुजा बाणपाशाश्रितदक्षिणपाणिद्वया धनुर्नागसङ्गतवामकरद्वया च १३, श्री अनन्तजितोऽङ्कुशा देवी गौरशरीरा कमलासना द्विमुजा फलककलितदक्षिणपाणिः अङ्कुशाङ्कितवामहस्ता च, मतान्तरेण चतुर्भुजा पाशासिलक्षि
१ बिडालवाहना, वरालकारव्यजीवविशेषविहारा वा. २
३ पाश ।
फलका ●