________________
( २ )
यस्याः कृपालाबुसमाश्रयेण मन्दोऽपि पारं श्रयति श्रुतान्धेः । वाङ्मालया सा भुवनं पुनाना
सरस्वती यच्छतु सुबुद्धिम् ॥ ४ ॥ कृपापूर्णदृशैतेषां स्वान्येषां हितकाम्यया ।
श्री एकविंशतिस्थानटीकां कुर्वे यथामति ||५|| शब्दार्थयोर्न काठिन्यं ग्रन्येऽत्र विद्यते कचित |
स्वपर भ्रान्तिनाशाय प्रयत्नो मे तथाप्ययम् ॥ ६ ॥ दुःप्रापपाप्य नृत्वं यतितव्यं श्रेयसे यथाशक्त्या । इति शिष्टगिरा कुवन् मूढोऽप्येनां न हास्ये स्याम् ||७||
इह किल चूर्णपेषं पिष्टाऽनल्पिष्ठजन्मजरामरणाधिव्याधिस्वेष्ट
विरहानिष्टसंयोगदारिद्र्यादिदुरन्तदुःखनिबन्धनघनिष्ठदुष्टकर्माष्टकानां,
निरावरणाऽप्रतिहताऽनन्तविमलकेवलालोकालोकिताविकलसक
ललोकालोकानां, करालकलिकालव्यालवदनविवरान्तर्वर्त्तिभव्यजन्तु
जातपरित्राणकर्मकर्मठसदुपदेशपीयूषरसपूरपूरितत्रिविष्टपानां,
भक्तिमरानम्रनरसुरासुरेश्वरनिकरकिरीटकोटिस्तबकितरत्नरोचि
निचयरोचिष्णुतरचरणारविन्दयुगलानामासन्नोपकारिणामृषभादिचतु