Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
( ४ ) शरीरदैर्घ्य प्रमाणं ८, आयुः सर्वायुष्कर, वर्णा- रक्तादयः १०, ततो 'अंतर' त्ति, जिनांतराणि - एकस्माज्जिनादपरो जिनः कियता कालव्यवधानेन सिद्ध इत्येवंरूपाणि ११, दीक्षा त्रतादानं, इह हिदीक्षेति सामान्यशब्दनिर्देशात् यस्मिन् वयसि यावता श्रमणपरिवारेण यत्र स्थाने जिनैदक्षा गृहीता तत्सर्वं वक्ष्यति १२, तपः- दीक्षाग्रहणकालीनं तपः १३, भिक्षा प्रथमपारणाः अत्र च प्रसङ्गतः कियत्तपोऽन्ते केन द्रव्येण किंनामधेयेन पुंसा भगवतामाद्यपारणकानि कारितानीत्यपि दर्शयिष्यति १४, ज्ञानस्थानं केवलज्ञानोत्पत्तिस्थानं, उपलक्षणत्वात् यत्तपोऽन्ते यद्वृक्षावश्च केवलज्ञानमुत्पेदे तदप्यभिधास्यति १५, तथा जिनानां सम्बन्धिनो गणधराश्च मुनयश्च आर्यिकाश्चेति समाहारद्वन्द्वस्ततः पर्यन्तवर्ति संख' इति शब्दसम्बन्धाजिनानां ऋष
(
*
भादीनां प्रत्येकं ये गणधरास्तेषां सङ्ख्या १६, तथा तेषामेव ये मुनयः - साघवस्तेषां सङ्ख्या १७, तथा तेषामेव या आर्यिकाःसाध्व्यस्तासां सङ्ख्या १८, तथा जिनानां यक्षाः १९, देव्यःशासनदेवताः २०, तथा सिद्धिस्थानं मोक्षगमनभूमिः इहापि सप्रसङ्गं येन तपसा यावन्मुनिपरिवृताः शिवं भेजुस्तदपि प्रकटीकरिष्यति २१, 'चः' प्राग्वत् इत्येकविंशतिस्थानानि क्रमेण परिपाट्या 'साहिमो' कथयिष्याम इति गाथाद्वयार्थः ॥ १ । २॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80