________________
२१, अरिष्टनेमिनः कन्या २२, पार्श्वप्रभोस्तुला २३, श्रमणस्य भगवतो महावीरस्य कन्याराशि २४ रिति क्रमेण नाभेयादिजिनानां राशयो बोद्धव्या इति गाथाद्वयार्थः ॥ १५ ॥ १६ ॥
इदानीं । लंछण 'त्ति सप्तमं स्थानं प्रतिपिपादयिषुराहवसह १ गय २ तुरय ३ वानर ४
कुंचू ५ कमलं ६ च सत्थिओ ७ चंदो । । मयर ९ सिरिवच्छ १० गंडय ११
महिस १२ वराहो १३ य सेणो १४ य ॥१७॥ वज्ज १५ हरिणो १६ छगलो १७
नंदावत्तो १८ य कलस १९ कुम्मो २० य । नीलुप्पल २१ संख २२ फणी २३ ।
सीहो २४ य जिणाण चिंधाई॥ १८ ॥ __ व्याख्या-' वसह ' इत्यादि, वृषभः १, गजः २, तुरगःअश्वः ३, वानरः-कपिः ४, क्रौञ्चः-पक्षिविशेषः ५, कमलं-रक्तकमलं ६, स्वस्तिकः ७, चन्द्रः ८, मकरः-मत्स्यविशेषः ९, श्रीवत्सःउत्तमपुरुषालंकारः १०, गंडकः-खड्गिः ११, महिषः १२, वराहः-शूकरः १३, श्येनः-पक्षिविशेषः १४, वज्र-इन्द्रायुधम्