Book Title: Ekvinshatisthan Prakaranam
Author(s): Chaturvijay
Publisher: Khimchand Fulchandbhai
View full book text
________________
(१४) " दसहीण जा अणंतो' त्ति, सुविधेरनन्तरं यावदनन्तजिनस्तावत् तीर्थकृतस्तनुमानविषये क्रमेण दशभिर्दशभिर्धनुर्भिींना वक्तव्याः, ततोऽयमभिप्रायः, सुविधिनिनतनुमानात् धनुःशतलक्षणाद् दशस्वपनीतेषु नेवतिचापोच्च: शीतलः १०, अंशीतिकोदण्डकायः श्रेयांसः ११, सप्ततिचापोच्चाङ्गयष्टिर्वासुपूज्यः १२, षष्टिचीपोन्नतो विमलजिनः १३, पञ्चाशद्धनुरुन्नतोऽनन्तजित् १४, ‘पंचूणा जाव जिणनेमी' ति, अनन्तजिनादनन्तरं तीयकृतः क्रमेण पञ्चभिः पञ्चभिर्धनुभिन्यूँनास्तावत् वक्तव्या यावन्नेमिजिनः, किमुक्त भवति ?, अनन्तजिनतनुमानात् पञ्चाशद्धनुःस्वरूपात् पञ्चसूद्धृतेषु “पञ्चचत्वारिंशच्चापोन्नतो धमजिनः १५,चत्वारिंशच्चापोन्नतः शान्तिः १६, पञ्चेत्रिंशद्धनुर्मितः कुन्थुः १७, त्रिशंच्चापोन्नतोऽरनाथः १८, पञ्चविंशतिचापोच्चो मल्लिस्वामी १९, विंशतिधनुरुन्नतो मुनिसुव्रतः २०, पञ्चदशधनुस्तुङ्गो नमिनाथः २१, देशधनुस्तुङ्गोऽरिष्टनेमिः २२, नर्वहस्तोन्नतवपुः पाश्वनाथः २३, सप्तहस्तोच्छ्रयः श्रीवर्द्धमानजिनः २४, इत्येवमुत्सेधाङ्गुलेन-' परमाणू रहरेणु तसरेणु ' इत्यादिक्रमनिष्पन्नेन शरीरमानमिदं जिनवराणां विज्ञेय"मिति गाथाद्वयार्थः ॥ १९ ॥ २० ॥
इदानीं ' आऊ ' ति नवमं स्थानमधिकृत्याऽऽह

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80