Book Title: Dharm Sangraha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
१८१
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯ तथा “भिन्न एव देहान्न स्पृष्टवेदनमिति" [सू० ११५] यदि हि "भिन्न एव" विलक्षण एव सर्वथा देहादात्मा तदा “न” नैव स्पृष्टस्य योषिच्छरीरशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरूपस्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनमनुभवनं प्राप्नोति भोगिनः पुरुषस्य । न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति । तथा “निरर्थकश्चानुग्रह इति" [सू० ११६] . "निरर्थकः" पुरषसंतोषलक्षणफलविकलश्चः समुच्चये “अनुग्रहः" स्रक्चन्दनाङ्गनावसनादिभि गाजैरुपष्टम्भो भवेद्देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात्, निग्रहस्याप्युपलक्षणमेतत् ।
एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह -
“अभिन्न एवामरणं वैकल्यायोगादिति” [सू० ११७] .."अभिन्न एव" देहात्सर्वथा नानात्वमनालम्बमाने आत्मनि सति “चैतन्यविशिष्टः कायः पुरुष इति मतावलम्बिनां
सुरगुरुशिष्याणामभ्युपगमेन" किमित्याह-“अमरणं" मृत्योरभाव आपद्यते आत्मनः, कुत इत्याह-वैकल्यस्यायोगादघटनात्, यतो मृतेऽपि देहे न किञ्चित्पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उच्छूनभावाऽयोगात्, तर्हि तेजसस्तत्र वैकल्यमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति? । . प्राक्तनावंस्थयोर्वायुतेजसोस्तत्राभावात् मरणमुपपद्यते इति चेदुच्यते - “मरणे परलोकाभाव इति" [सू० ११८]
"मरणे" अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित्परलोकयायी सिद्ध्यति, देहस्यात्रैव तावत्पातदर्शनात्तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात् न च वक्तव्यं परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैः प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात् प्रमाणं चेदम्-यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टो, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः यच्च तदभिलाषान्तरं तन्नियमाद्भवान्तरभावीति । तथा “देहकृतस्यात्मनाऽनुपभोग इति" [सू० ११९]
एकान्तभेदे देहाऽऽत्मनोः “देहकृतस्य" शुभस्याशुभस्य वा “आत्मनानुपभोगः” सुखदुःखानुभवद्वारेणाऽवेदनमापद्यते । नहि कश्चिदन्यकृतं शुभमशुभं वा वेदयितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति ।
तथा “आत्मकृतस्य देहेनेति" [सू० १२०] यदि च देहाद्भिन्न एवात्मेत्यभ्युपगमस्तदा “आत्मकृतस्य" कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कानुपभोगोऽवेदनं प्रसज्यते, अकृतत्वात् । .

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276