Book Title: Dharm Sangraha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 211
________________ ૧૯૦ धर्मसंग्रह भाग-१ / प्रथम मधिकार | PRTs-१८ “कृतकत्वेऽपि" स्वहेतुभिर्निष्पादितत्वेऽपि, बन्धस्यातीतकालस्येवोपपत्तिर्घटनाऽनादिमत्त्वस्य वक्तव्या । किमुक्तं भवति? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतीतकालवदनादिमानेव । अथ यादृशादनयोर्दृष्टान्तदान्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह - “वर्तमानताकल्पं कृतकत्वमिति" [सू० ११०] यादृशी अतीतकालसमयानां वर्त्तमानता तत्कल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् । यादृशी चात्मनि प्रागुपन्यस्ता बन्धहेतव उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह"परिणामिन्यात्मनि हिंसादयो भिन्नेऽभिन्ने च देहादिति" [सू० १११] परिणमनं परिणामो द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः यथोक्तम्"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ।।१।।" परिणामो नित्यमस्यातीति परिणामी तत्र, आत्मनि जीवे, “हिंसादयः" प्राग्निरूपिता उपपद्यन्ते, तथा “भिन्ने" पृथग्रूपे “अभिन्ने च" तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-“देहात्" शरीरात् । अत्रैवार्थे विपक्षे बाधामाह"अन्यथा तदयोग इति” [सू० ११२] यदि हि परिणाम्यात्मा भिन्नाभिन्नश्च देहान्नेष्यते, तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगोऽघटना । कथमित्याह“नित्य एवाधिकारतोऽसंभवादिति" [सू० ११३] नित्य एव अच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि नतु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थोऽभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतोऽधिकारतस्तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेनासम्भवादघटनात् हिंसायाः; यतो विवक्षितहिंसा विवक्षितपर्यायविनाशादिस्वभावा शास्त्रेषु गीयते यथोक्तम् - "तत्पर्यायविनाशो, दुःखोत्पादस्तथा च संक्लेशः । एष वधो जिनभणितो, वर्जयितव्यः प्रयत्नेन ।।१।।" तथा “अनित्ये चापराऽहिंसनेनेति" [सू० ११४] “अनित्ये च" सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मन्यभ्युपगम्यमाने सति, अपरेण केनचिल्लुब्धकादिना अहिंसनेनाऽव्यापादनेन, कस्यचिच्छूकरादेहिँसाऽसंभवः, प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेषात्मसु स्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति ।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276