________________
૧૯૦
धर्मसंग्रह भाग-१ / प्रथम मधिकार | PRTs-१८ “कृतकत्वेऽपि" स्वहेतुभिर्निष्पादितत्वेऽपि, बन्धस्यातीतकालस्येवोपपत्तिर्घटनाऽनादिमत्त्वस्य वक्तव्या । किमुक्तं भवति? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतीतकालवदनादिमानेव ।
अथ यादृशादनयोर्दृष्टान्तदान्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह - “वर्तमानताकल्पं कृतकत्वमिति" [सू० ११०] यादृशी अतीतकालसमयानां वर्त्तमानता तत्कल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् । यादृशी चात्मनि प्रागुपन्यस्ता बन्धहेतव उपपद्यन्ते तमन्वयव्यतिरेकाभ्यामाह"परिणामिन्यात्मनि हिंसादयो भिन्नेऽभिन्ने च देहादिति" [सू० १११] परिणमनं परिणामो द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्तिः यथोक्तम्"परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ।।१।।" परिणामो नित्यमस्यातीति परिणामी तत्र, आत्मनि जीवे, “हिंसादयः" प्राग्निरूपिता उपपद्यन्ते, तथा “भिन्ने" पृथग्रूपे “अभिन्ने च" तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह-“देहात्" शरीरात् ।
अत्रैवार्थे विपक्षे बाधामाह"अन्यथा तदयोग इति” [सू० ११२] यदि हि परिणाम्यात्मा भिन्नाभिन्नश्च देहान्नेष्यते, तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगोऽघटना । कथमित्याह“नित्य एवाधिकारतोऽसंभवादिति" [सू० ११३] नित्य एव अच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि नतु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थोऽभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतोऽधिकारतस्तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेनासम्भवादघटनात् हिंसायाः; यतो विवक्षितहिंसा विवक्षितपर्यायविनाशादिस्वभावा शास्त्रेषु गीयते यथोक्तम् -
"तत्पर्यायविनाशो, दुःखोत्पादस्तथा च संक्लेशः । एष वधो जिनभणितो, वर्जयितव्यः प्रयत्नेन ।।१।।" तथा “अनित्ये चापराऽहिंसनेनेति" [सू० ११४]
“अनित्ये च" सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मन्यभ्युपगम्यमाने सति, अपरेण केनचिल्लुब्धकादिना अहिंसनेनाऽव्यापादनेन, कस्यचिच्छूकरादेहिँसाऽसंभवः, प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेषात्मसु स्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः? को वा कस्य हिंसनीयः? इति ।