SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १८१ ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯ तथा “भिन्न एव देहान्न स्पृष्टवेदनमिति" [सू० ११५] यदि हि "भिन्न एव" विलक्षण एव सर्वथा देहादात्मा तदा “न” नैव स्पृष्टस्य योषिच्छरीरशयनासनादेः कण्टकज्वलनज्वालादेश्च इष्टानिष्टरूपस्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनमनुभवनं प्राप्नोति भोगिनः पुरुषस्य । न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति । तथा “निरर्थकश्चानुग्रह इति" [सू० ११६] . "निरर्थकः" पुरषसंतोषलक्षणफलविकलश्चः समुच्चये “अनुग्रहः" स्रक्चन्दनाङ्गनावसनादिभि गाजैरुपष्टम्भो भवेद्देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात्, निग्रहस्याप्युपलक्षणमेतत् । एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह - “अभिन्न एवामरणं वैकल्यायोगादिति” [सू० ११७] .."अभिन्न एव" देहात्सर्वथा नानात्वमनालम्बमाने आत्मनि सति “चैतन्यविशिष्टः कायः पुरुष इति मतावलम्बिनां सुरगुरुशिष्याणामभ्युपगमेन" किमित्याह-“अमरणं" मृत्योरभाव आपद्यते आत्मनः, कुत इत्याह-वैकल्यस्यायोगादघटनात्, यतो मृतेऽपि देहे न किञ्चित्पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते, वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उच्छूनभावाऽयोगात्, तर्हि तेजसस्तत्र वैकल्यमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति? । . प्राक्तनावंस्थयोर्वायुतेजसोस्तत्राभावात् मरणमुपपद्यते इति चेदुच्यते - “मरणे परलोकाभाव इति" [सू० ११८] "मरणे" अभ्युपगम्यमाने परलोकस्याभावः प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित्परलोकयायी सिद्ध्यति, देहस्यात्रैव तावत्पातदर्शनात्तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात् न च वक्तव्यं परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैः प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात् प्रमाणं चेदम्-यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टो, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः अभिलाषश्च बालस्य तदहर्जातस्य प्रसारितलोचनस्य मातुः स्तनौ निभालयतः स्तन्यस्पृहारूपः यच्च तदभिलाषान्तरं तन्नियमाद्भवान्तरभावीति । तथा “देहकृतस्यात्मनाऽनुपभोग इति" [सू० ११९] एकान्तभेदे देहाऽऽत्मनोः “देहकृतस्य" शुभस्याशुभस्य वा “आत्मनानुपभोगः” सुखदुःखानुभवद्वारेणाऽवेदनमापद्यते । नहि कश्चिदन्यकृतं शुभमशुभं वा वेदयितुमर्हति, कृतनाशाकृताभ्यागमदोषप्रसङ्गादिति । तथा “आत्मकृतस्य देहेनेति" [सू० १२०] यदि च देहाद्भिन्न एवात्मेत्यभ्युपगमस्तदा “आत्मकृतस्य" कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कानुपभोगोऽवेदनं प्रसज्यते, अकृतत्वात् । .
SR No.022039
Book TitleDharm Sangraha Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages276
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy