________________
ધર્મસંગ્રહ ભાગ-૧ / પ્રથમ અધિકાર | શ્લોક-૧૯
૧૮૯ - तत्र बध्यमानः स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः, क इत्याह-आत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवः प्रतिपाद्यते तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्माऽनेनेति बन्धनम्, किमित्याह-वस्तुसत्परमार्थतो विद्यमानम् कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयस्वभावमत एव मूर्तप्रकृतीति ।
अत्रात्मग्रहणेन साङ्ख्यमतनिरासमाह, यतस्तत्रोच्यते"आत्मा न बध्यते, नापि संसरति कश्चित्, संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः” । ... वस्तुसद्ग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते । "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ।।१।।"
"रागादिक्लेशवासितमिति" रागादिक्लेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासितं संस्कृतम्, एवं हि बध्यमानान्न भिन्नं वस्तु सत्कर्मेत्युपगतं भवति । तत्र प्रकृतेरेव बन्धमोक्षाभ्युपगमे आत्मनः संसाराऽपवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम-नियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद्योगशास्त्रेषु तद्व्यर्थमेवस्यात् । बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात्, यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत्तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमानबन्धनयोः पुरुषनिगडादिरूपयोभिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात् । किञ्च-चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारापवर्गयोर्भेदो न प्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् । बन्धमोक्षहेतूनेवाह -
"हिंसादयस्तद्योगहेतवस्तदितरे तदितरस्येति" [सू० १०७] "हिंसादयः" इति हिंसानृतादयो जीवपरिणामविशेषाः, किमित्याह-तद्योगहेतवस्तस्य=बन्धस्य संसारफलत्वेन परमार्थचिन्तायां पापात्मकस्यैव योगहेतव आत्मना सह बन्धकारणभावमापन्ना वर्तन्ते । यदवाचि
"हिंसाऽनृतादयः पञ्च, तत्त्वाऽश्रद्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ।।१।।" तथा “तदितरे" तेभ्यो हिंसादिभ्य इतरेऽहिंसादय एव, “तदितरस्य” तस्माद्बन्धादितरो मोक्षस्तस्यानुरूपकारणप्रभवत्वात् सर्वकार्याणामिति ।
बन्धस्यैव स्वरूपमाह - "प्रवाहतोऽनादिमानिति" [सू० १०८] प्रवाहतः परम्परातोऽनादिमान् आदिभूतबन्धकालविकलः । अत्रैवाथै उपचयमाह - "कृतकत्वेऽप्यतीतकालवदुपपत्तिरिति" [सू० १०९]