________________
૧૮૮
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯ “अन्यथा याचितकमण्डनमिति" [सू० १०१]
अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनम्, द्विविधं ह्यलङ्कारफलम्, निर्वाहे सति परिशुद्धाऽऽभिमानिकसुखजनिका स्वशरीरशोभा, कथंचिनिर्वहणाभावे च तेनैव निर्वाहः न च याचितकमण्डने एतद्वितीयमप्यस्ति परकीयत्वात्तस्य, ततो याचितकमण्डनमिव याचितकमण्डनम् । इदमुक्तं भवति-द्रव्यपर्यायोभयस्वभावे जीवे कषच्छेदौ निरुपचरिततयोपस्थाप्यमानौ स्वफलं प्रत्यवन्ध्यसामर्थ्यावेव स्याताम्, नित्याद्येकान्तवादे तु स्ववादशोभार्थं तद्वादिभिः कल्प्यमानावप्येतौ याचितकमण्डनाकारौ प्रतिभासेते, न पुनः स्वकार्यकराविति ।
आह-अवगतं यथा कषच्छेदतापशुद्धः श्रुतधर्मो ग्राह्यः, परं किंप्रणेतृकोऽसौ प्रमाणमिति व्यतिरेकतः साधयन्नाह"नातत्त्ववेदिवादः सम्यग्वाद इति" [सू० १०२]
न-नैव, अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलस्य पुरषविशेषस्याग्दिर्शिन इत्यर्थः वादो-वस्तुप्रणयनमतत्त्ववेदिवादः किमित्याह-सम्यग्वादो यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्धचित्रकरनरालिखितचित्रकर्मवत् यथावस्थितरूपविसंवादेनासमञ्जसमेव शास्त्रं स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपतां प्रतिपत्तुमुत्सहत इति । सम्यग्वादताया एवोपायमाह"बन्धमोक्षोपपत्तितस्तच्छुद्धिरिति” [सू० १०३] ' बन्धो मिथ्यात्वादिहेतुभ्यो जीवय कर्मपुद्गलानां च वययःपिण्डयोरिव क्षीर-नीरयोरिव वा परस्परमविभागपरिणामेनावस्थानम्, मोक्षः पुनः सम्यग्दर्शन-ज्ञान चारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धश्च मोक्षश्च बन्धमोक्षौ तयोरुपपत्तिर्घटना तस्याः सकाशाच्छुद्धिर्वस्तुवादनिर्मलता चिन्तनीया । इदमुक्तं भवति - यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरूप्यते स सर्ववेदिपुरुषप्रतिपादित इति कोविदैनिश्चीयते इति ।
इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह“इयं बध्यमानबन्धनभावे इति" [सू० १०४] इयं बन्धमोक्षोपपत्तिर्बध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति । कुत इत्याह - "कल्पनामात्रमन्यथेति" [सू० १०५] यस्मात्कारणादियं कल्पनैव केवला वितथार्थप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोऽर्थोऽपीति कल्पनामात्रम्, अन्यथा मुख्यबध्यमानबन्धनयोरभावे वर्त्तते इति । बध्यमानबन्धन एव व्याचष्टे - “बध्यमान आत्मा बन्धनं वस्तुसत्कर्मेति" [सू० १०६]