________________
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯
૧૮૭ यथा कष-च्छेदशुद्धमपि सुवर्णं तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते । एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयत्यतस्तापं प्रज्ञापयन्नाह -
"उभयनिबन्धनभाववादस्ताप इति" [सू० ९५]
उभयोः कष-च्छेदयोरनन्तरमेवोक्तरूपयोर्निबन्धनं परिणामि किमित्याह-तापोऽत्र श्रुतधर्मपरीक्षाधिकारे । इदमुक्तं भवति - यत्र शास्त्रे द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभावास्कन्दनेनानित्यस्वभावो जीवादिरवस्थाप्यते स्यात्तत्र तापशुद्धिः, यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते न पुनरन्यथेति ।
एतेषां मध्यात्को बलीयानितरो वेति प्रश्ने यत्कर्त्तव्यं तदाह - "अमीषामन्तरदर्शनमिति" [सू० ९६] • अमीषां त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य समर्थाऽसमर्थरूपस्य दर्शनं कार्यमुपदेशकेन । तदेव दर्शयति - "कषच्छेदयोरयत्न इति" [सू० ९७] कषच्छेदयोः परीक्षाऽक्षमत्वेनादरणीयतायामयत्नोऽतात्पर्य मतिमतामिति । "कुत इत्याह - "तद्भावेऽपि तापाभावेऽभाव इति" [सू० ९८]
तयोः कषच्छेदयोर्भावः सत्ता तद्भावस्तस्मिन्, किं पुनरतद्भावे? इत्यपिशब्दार्थः । किमित्याह-“तापाभावे" उक्तलक्षणतापविरहे अभावः परमार्थतोऽसत्तैव परीक्षणीयस्य, न हि तापे विघटमानं हेम कषच्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम्, जातिसुवर्णत्वात्तस्य । एतदपि कथमित्याह - "तच्छुद्धौ हि तत्साफल्यमिति" [सू० ९९]
तच्छुद्धौ तापशुद्धौ हि यस्मात्तत्साफल्यं तयोः कषच्छेदयोः सफलभावः । तथाहि-ध्यानाऽध्ययनादिकोऽर्थो विधीयमानः प्रागुपात्तकर्मनिर्जरणफलः हिंसादिकश्च प्रतिषिध्यमानो नवकोपादाननिरोधफलः, बाह्यचेष्टाशुद्धिश्चानयोरेवानाविर्भूतयोर्योगेनाविर्भूतयोश्च परिपालनेन फलवती स्यात् । न चापरिणामिन्यात्मन्युक्तलक्षणौ कषच्छेदौ स्वकार्यं कर्तुं प्रभविष्णू स्यातामिति तयोस्तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति ।
ननु फलविकलावपि तौ भविष्यत इत्याह – “फलवन्तौ च वास्तवाविति" [सू० १००] उक्तलक्षणभाजौ सन्तौ पुनस्तौ कषच्छेदौ वास्तवौ कषच्छेदौ भवतः स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः । विपक्षे बाधामाह -