________________
૧૮૬
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯
अयं च श्रुतधर्मः प्रतिदर्शनमन्यथान्यथा प्रवृत्त इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याह - “बहुत्वात् परीक्षावतार इति" [सू० ९१] . तस्य हि बहुत्वाच्छ्रुतधर्माणां श्रुतधर्म इतिशब्दसमानतया विप्रलब्धबुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसंबन्धिन्यामवतारः कार्यः, अन्यत्राप्यवाचि - "तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति । स शब्दसाम्येऽपि विचित्रभेदैविभिद्यते क्षीरमिवार्चनीयम् ।।१।। लक्ष्मी विधातुं सकलां समर्थं, सुदुर्लभं विश्वजनीनमेनम् । परीक्ष्य गृह्णन्ति विचारदक्षाः, सुवर्णवद्वञ्चनभीतचित्ताः ।।२।।" इति । परीक्षोपायमेवाह - “कषादिप्ररूपणेति" [सू० ९२] ।
यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कषच्छेदतापाः परीक्षणाय विचक्षणैराद्रियन्ते, तथाऽत्रापि श्रुतधर्मे परीक्षणीये कषादीनां प्ररूपणेति ।
कषादीनेवाह - “विधिप्रतिषेधौ कष इति" [सू० ९३]
विधिरविरुद्धकर्त्तव्याऽर्थोपदेशकं वाक्यं यथा स्वर्गकेवलार्थिना तपो-ध्यानादि कर्त्तव्यम्, समितिगुप्तिशुद्धा क्रिया इत्यादि, प्रतिषेधः पुनर्न हिंस्यात्सर्वभूतानि, नानृतं वदेदित्यादि, ततो विधिश्च प्रतिषेधश्च विधिप्रतिषेधौ किमित्याह-कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा । इदमुक्तं भवति-यत्र धर्मे उक्तलक्षणो विधिः, प्रतिषेधश्च : पदे पदे सुपुष्कल उपलभ्यते, स धर्मः कषशुद्धः, न पुनः“अन्यधर्मस्थिताः सत्त्वा, असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते ।।१।।" इत्यादिकवाक्यगर्भ इति । छेदमाह - “तत्संभवपालनाचेष्टोक्तिश्छेद इति" [सू० ९४]
तयोविधिप्रतिषेधयोरनाविर्भूतयोः संभवः, प्रादुर्भूतयोश्च पालना रक्षारूपा, ततस्तत्संभवपालनार्थं या चेष्टा भिक्षाटनादिबाह्यक्रियारूपा, तस्या उक्तिश्छेदः । यथा कषशुद्धावप्यन्तरामशुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते स च छेदो विशुद्धबाह्यचेष्टारूपो, विशुद्धा च चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ स्वात्मानं लभेते लब्धात्मानौ चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मः छेदशुद्ध इति ।