Book Title: Dharm Sangraha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 248
________________ ૨૭ ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯ अथ फलत एव तमेवाह“ग्रन्थिभेदे नात्यन्तसङ्क्लेश इति" [सू० १२७] इह ग्रन्थिरिव ग्रन्थिदृढो रागद्वेषपरिणामः, तस्य ग्रन्थे:देऽपूर्वकरणवज्रसूच्या विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसामर्थ्याद् “नात्यन्तं" न प्रागिवातिनिबिडतया “संक्लेशो" रागद्वेषपरिणामः प्रवर्त्तते, न हि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्ध्रोऽपि प्रागवस्थां प्रतिपद्यत इति । एतदपि कुत इत्याह“न भूयस्तबन्धनमिति" [सू० १२८] यतो "न" "भूयः" पुनरपि तस्य ग्रंथेर्बन्धनं निष्पादनं भेदे सति संपद्यत इति । किमुक्तं भवति-यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्तःसागरोपमकोटीकोटिलक्षणाऽवशिष्यति तावत्प्रमाण(णा)मेवासौ सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित्सम्यक्त्वापगमात्तीव्रायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं(स्तां) बन्धेनातिक्रामतीति । तथा “असत्यपाये न दुर्गतिरिति” [सू० १२९] असत्यविद्यमाने “अपाये" विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्तौ "न" नैव “दुर्गतिः" कुदेवत्वकुमानुषत्वतिर्यक्त्वनारकत्वप्राप्तिः संपद्यते, किंतु सुदेवत्वसुमानुषत्वे एव स्याताम्, अन्यत्र पूर्वबद्धायुष्केभ्य इति । तथा “विशुद्धेश्चारित्रमिति” [सू० १३०] “विशुद्धेः" परिशुद्धनिःशङ्कितत्वादिदर्शनाचारवारिपूरप्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात्किमित्याह-"चारित्रं" सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते । शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात्तथा चाचारसूत्रम्-"जं मोणंति पासहा, तं संमंति पासहा । जं संमंति पासहा, तं मोणंति पासहत्ति" [१।५।३ सू० १५५] । "भावनातो रागादिक्षय इति" [सू० १३१] भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेव ता इति भावनास्ताश्चानित्यत्वाऽशरणत्वादयो द्वादश यथोक्तम् - "भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ।।१।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च, भावना द्वादश विशुद्धाः ।।२।।" [प्रशमरति १४९-१५०] .

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276