________________
૨૭
ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | શ્લોક-૧૯
अथ फलत एव तमेवाह“ग्रन्थिभेदे नात्यन्तसङ्क्लेश इति" [सू० १२७]
इह ग्रन्थिरिव ग्रन्थिदृढो रागद्वेषपरिणामः, तस्य ग्रन्थे:देऽपूर्वकरणवज्रसूच्या विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसामर्थ्याद् “नात्यन्तं" न प्रागिवातिनिबिडतया “संक्लेशो" रागद्वेषपरिणामः प्रवर्त्तते, न हि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्ध्रोऽपि प्रागवस्थां प्रतिपद्यत इति । एतदपि कुत इत्याह“न भूयस्तबन्धनमिति" [सू० १२८]
यतो "न" "भूयः" पुनरपि तस्य ग्रंथेर्बन्धनं निष्पादनं भेदे सति संपद्यत इति । किमुक्तं भवति-यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्तःसागरोपमकोटीकोटिलक्षणाऽवशिष्यति तावत्प्रमाण(णा)मेवासौ सम्यगुपलब्धसम्यग्दर्शनो जीवः कथञ्चित्सम्यक्त्वापगमात्तीव्रायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं(स्तां) बन्धेनातिक्रामतीति । तथा “असत्यपाये न दुर्गतिरिति” [सू० १२९]
असत्यविद्यमाने “अपाये" विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्तौ "न" नैव “दुर्गतिः" कुदेवत्वकुमानुषत्वतिर्यक्त्वनारकत्वप्राप्तिः संपद्यते, किंतु सुदेवत्वसुमानुषत्वे एव स्याताम्, अन्यत्र पूर्वबद्धायुष्केभ्य इति । तथा “विशुद्धेश्चारित्रमिति” [सू० १३०]
“विशुद्धेः" परिशुद्धनिःशङ्कितत्वादिदर्शनाचारवारिपूरप्रक्षालितशङ्कादिपङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात्किमित्याह-"चारित्रं" सर्वसावद्ययोगपरिहारनिरवद्ययोगसमाचाररूपं संपद्यते । शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात्तथा चाचारसूत्रम्-"जं मोणंति पासहा, तं संमंति पासहा । जं संमंति पासहा, तं मोणंति पासहत्ति" [१।५।३ सू० १५५] ।
"भावनातो रागादिक्षय इति" [सू० १३१] भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेव ता इति भावनास्ताश्चानित्यत्वाऽशरणत्वादयो द्वादश यथोक्तम् - "भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः, कर्माश्रवसंवरविधिश्च ।।१।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च, भावना द्वादश विशुद्धाः ।।२।।" [प्रशमरति १४९-१५०] .