Book Title: Dharm Sangraha Part 01
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 249
________________ ૨૨૮ ધર્મસંગ્રહ ભાગ-૧ | પ્રથમ અધિકાર | બ્લોક-૧૯ ताभ्यो “रागादिक्षयो" रागद्वेषमोहमलप्रलयः संजायते, सम्यक्चिकित्साया इव वातपित्तादिरोगापगमः, प्रचण्डपवनाद्वा यथा मेघमण्डलविघटनम्, रागादिप्रतिपक्षभूतत्वाद् भावनानामिति । ततोऽपि किमित्याह“तद्भावेऽपवर्ग इति" [सू० १३२] "तस्य" रागादिक्षयस्य "भावे" सकललोकाऽलोकविलोकनशालिनोः केवलज्ञानदर्शनयोर्लब्धौ सत्यां निस्तीर्णभवार्णवस्य सतो जन्तोः “अपवर्ग:” उक्तनिरुक्त उद्भवतीति । किंलक्षण इत्याह-“स आत्यन्तिको दुःखविगम इतीति" [सू० १३३] सोऽपवर्गः अत्यन्तं सकलदुःखशक्तिनिमूलनेन भवतीति आत्यन्तिको “दुःखविगमः" सर्वशारीरमानसाशर्मविरहः सर्वजीवलोकासाधारणानन्दानुभवश्चेति । इत्थं देशनाविधिं प्रपञ्च्योपसंहरनाह - "एवं संवेगकृद्धर्म, आख्येयो मुनिना परः । ----- यथाबोधं हि शुश्रूषो वितेन महात्मना" [धर्मबिन्दुः गा. १० प. २९ ए] इति । व्याख्यातप्रायम् । आह-धर्माख्यापनेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह“अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः ।।१।।" [धर्मबिन्दुः गा. ११ प. २९] इति सुगमम् । आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्क्याहनोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् ।। यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ।।२।। [धर्मबिन्दुः गा. १२ प. २९] इति । "न" नैवोपकारोऽनुग्रहो “जगति" भुवने “अस्मिन्” उपलभ्यमाने “तादृशो” “विद्यते” समस्ति “क्वचित्" काले क्षेत्रे वा “यादृशी" यादृगूरूपा "दुःखविच्छेदात्” शारीरमानसदुःखापनयनात् “देहिनां" देशनार्हाणां “धर्मदेशना" इति धर्मदेशनाजनितो मार्गश्रद्धानादिर्गुणः, तस्य निःशेषक्लेशलेशाकलङ्कमोक्षाक्षेपं प्रत्यवन्ध्यकारणत्वात् । इति निरूपितो धर्मबिन्दौ [अध्याय २ । प. १६-३०] सद्धर्मदेशनाप्रदानविधिः ।।१९।। टीकार्थ :___ एवं तत्त्ववादे ..... प्रदानविधिः ।। शत तत्पपा नि३५ ४२राये ७t=पूर्वमा By Asidपाथी अन्यथा નિત્યાનિત્યાદિ રૂપે આત્મા સ્વીકારાયે છતે હિંસા-અહિંસાદિની સિદ્ધિ છે એ તત્ત્વવાદ છે એ રીતે, તત્ત્વવાદ નિરૂપણ राये छते, शुं ४२j l ? मेथी ४४ छ -

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276