Book Title: Char Tirthankar
Author(s): Sukhlal Sanghavi, Shobhachad Bharilla, Bhavarmal Singhi, Sagarmal Jain, Dalsukh Malvania
Publisher: Parshwanath Vidyapith
View full book text
________________
[ भगवान् ऋषभदेव और उनका परिवार : १६
उत्पादितास्त्रयो वर्णास्तदा तेनादिवेधसा । क्षत्रिया वणिजः शूद्राः क्षतत्राणादिभिर्गुणैः ॥१८३॥ क्षत्रियाः शस्त्रजीवित्वमनुभूय तदाभवन् । वैश्याश्च कृषिवाणिज्यपाशुपाल्योपजीविताः ॥१८४॥ तेषां शुश्रूषणाच्छ द्रास्ते द्विधा कार्यकारवः । कारवो रजकाद्याः स्युः ततोऽन्ये स्युरकारवः ॥१८॥ कारवोऽपि मता द्वधा स्पृश्यास्पृश्यविकल्पतः । तत्राऽस्पृश्याः प्रजाबाह्याः स्पृश्याः स्युः कर्तकादयः ॥१७६॥ यथास्वं स्वोचितं कर्म प्रजा दधुरसङ्करम् । विवाहजातिसम्बन्धव्यवहारश्च तन्मतम् ॥१८७॥ यावती जगतीवृत्तिः अपापोपहता च या। सा सर्वास्य मतेनासीत् स हि धाता सनातनः ॥१८॥ युगादिब्रह्मणा तेन यदित्थं स कृतो युगः । ततः कृतयुगं नाम्ना तं पुराणविदो विदुः ॥१८६॥ कृत्वादितः प्रजासगं तवृत्तिनियमं पुनः । स्वधर्मानतिवृत्त्यव नियच्छन्नन्वशात् प्रजाः ॥२४२॥ स्वदोभ्यां धारयन् शस्त्र क्षत्रियानसृजद् विभुः। क्षत्रत्राणे नियुक्ता हि क्षत्रियाः शस्त्रपाणयः ॥२४३।। ऊरुम्यां दर्शयन् यात्राम् अस्राक्षीद् वणिजः प्रभुः । 'जलस्थलादियात्राभिः तवृत्तिर्वार्त्तया यतः ॥२४४॥ न्यग्वृत्तिनियतान् शूद्रान् पद्भ्यामेवासृजत् सुधीः । वर्णोत्तमेषु शुश्रूषा तवृत्ति कंधा स्मृता ।।२४५।। मुखतोऽध्यापयन शास्त्र भरतः स्रक्ष्यति द्विजान । अधीत्यध्यापने दानं प्रतीच्छेज्येति तक्रिया ॥२४६।। शूद्रा शूद्रेण वोढव्या नान्या तां स्वां च नैगमः । वहेत् स्वां ते च राजन्यः स्वां द्विजन्मा क्वचिच्च ताः ॥२४७॥
-जिनसेन महापु० पर्व-१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158