Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 15
________________ vii अथ कोऽसौ विशेष: वेददर्शनस्य अपौरुषेयत्वे इति चेत् उच्यते-वस्तुसिद्धस्य तत्त्वस्य तपसा निर्विषयात्मकेन विमर्शन साक्षात्कृतार्थस्य तस्य यथायन तदनुवादतामात्रेण वागुद्गारः इति ब्रूमः ; तद्यथा-स्वप्नदशायां स्वप्नदर्शनेनोदितस्येव देवताद्यावेशदशायां च तत्समा नमेव भवितुमर्हति, समाधौ तु सद्दर्शनेन समुदीर्णस्य वेदमन्त्रस्यापि नैव पुरुषमतिकृतिविषयत्वम्, अत एव तस्य अलौकिकत्वं अकृत्रिमत्वं चेति सङ्गच्छते ॥ “ यामृषयो मन्त्रकृतो मनीषिणः। अन्वैच्छन् देवास्तपसा श्रामेण || तां देवीं वाच५ हविषा यजामहे | सा नो दधातु सुकृतस्य लोके" (ते. ब्रा. २-८-८-५) इत्यादि वेदवचनोपोद्वलितं ऋषीणां मन्त्रकर्तृत्वमपि तद्दर्शन-श्रवणादिमन्त्रत्वसिद्धमेव भवितुमर्हति, न तु पुनः पुरुषमतिकल्पितत्वरूपमिति वेदितव्यम् | ऋषिदृष्टत्वादेव च तेषां वेदमन्त्राणां मनु-वसिष्ठ-वामदेव-विश्वामित्रादीनां तत्तदा. र्षयत्वव्यवहारः शास्त्रीय एवेति सम्पद्यते | तेषां मन्त्राणां विनियोगे तत्तदृषीणामनुस्मरणविधानादिति ॥ प्रस्तुतं वेदमन्त्राणां नूतनदर्शनतत्त्वधिमर्शनम् वेदस्य तस्य अनन्तत्वात् नित्यत्वात् वस्तुतत्त्वसिद्धत्वादेव च पूर्वेः पूर्वतरैश्च ऋषिभिः तदा तदा तपसा यथा दृष्टो वेदः अनुश्रूयते-तथैव पुनरिदानीमपि तादृशेन तपसा प्रत्यग्दृशा च द्रष्टुं शक्यः इति उन्नीयते ; सोऽयं नित्यसिद्धस्य भूतार्थस्य सत्यस्य वस्तुनः स्वभावः, यत् खलु शास्त्रीयेन प्रमाणेन प्रत्यक्षीकरणाहतासत्त्वम् ; यथा खलु (वस्तुतः) अमेयस्यापि सतः ब्रह्मात्मनो दर्शनं स्वस्वरूपानुभूतिरूपपरम्, तच्च अनन्यसाधारणं अशक्यसम्पादमपि तपसा शास्त्रदृष्ट्या च इदानीमपि सुसम्पादमेवेति सर्वषामपि विदुषामभ्युपगतमेव शास्त्रसिद्धं तत्त्वम्, तत् तथैव सत्यमिति चेत् वेदमन्त्रदर्शनस्यापि तत्समानमेव भवितुमर्हतीति यथा शास्त्रं तदभ्युपगन्तव्यमेवेति निर्विवादम् | परब्रह्मणः साक्षात्कारे यदि ईदृशी शक्यताकथा चेत् किं पुनर्वक्तव्यं प्रत्यक्षस्य शब्दब्रह्मणो वेदस्य दर्शने तत् समानमिति; अस्मिन्नर्थ ऋषेवरातस्य तपसा दिव्यदर्शनेन च समाविभूतं " छन्दोदर्शनम्' तदिदमेव प्रत्यक्षं प्रमाणम् ,तदेतदपि समर्थितमस्माभिः विश्वमीमांसायाम् - " इदानीमपि मन्त्राख्यां सत्यसन्धो महायशाः । प्रदिशन् आत्मदृष्टिभ्यो दैवरातः प्रदृश्यते " || इति ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 524