________________
vii
अथ कोऽसौ विशेष: वेददर्शनस्य अपौरुषेयत्वे इति चेत् उच्यते-वस्तुसिद्धस्य तत्त्वस्य तपसा निर्विषयात्मकेन विमर्शन साक्षात्कृतार्थस्य तस्य यथायन तदनुवादतामात्रेण वागुद्गारः इति ब्रूमः ; तद्यथा-स्वप्नदशायां स्वप्नदर्शनेनोदितस्येव देवताद्यावेशदशायां च तत्समा नमेव भवितुमर्हति, समाधौ तु सद्दर्शनेन समुदीर्णस्य वेदमन्त्रस्यापि नैव पुरुषमतिकृतिविषयत्वम्, अत एव तस्य अलौकिकत्वं अकृत्रिमत्वं चेति सङ्गच्छते ॥
“ यामृषयो मन्त्रकृतो मनीषिणः। अन्वैच्छन् देवास्तपसा श्रामेण || तां देवीं वाच५ हविषा यजामहे | सा नो दधातु सुकृतस्य लोके"
(ते. ब्रा. २-८-८-५) इत्यादि वेदवचनोपोद्वलितं ऋषीणां मन्त्रकर्तृत्वमपि तद्दर्शन-श्रवणादिमन्त्रत्वसिद्धमेव भवितुमर्हति, न तु पुनः पुरुषमतिकल्पितत्वरूपमिति वेदितव्यम् |
ऋषिदृष्टत्वादेव च तेषां वेदमन्त्राणां मनु-वसिष्ठ-वामदेव-विश्वामित्रादीनां तत्तदा. र्षयत्वव्यवहारः शास्त्रीय एवेति सम्पद्यते | तेषां मन्त्राणां विनियोगे तत्तदृषीणामनुस्मरणविधानादिति ॥
प्रस्तुतं वेदमन्त्राणां नूतनदर्शनतत्त्वधिमर्शनम् वेदस्य तस्य अनन्तत्वात् नित्यत्वात् वस्तुतत्त्वसिद्धत्वादेव च पूर्वेः पूर्वतरैश्च ऋषिभिः तदा तदा तपसा यथा दृष्टो वेदः अनुश्रूयते-तथैव पुनरिदानीमपि तादृशेन तपसा प्रत्यग्दृशा च द्रष्टुं शक्यः इति उन्नीयते ; सोऽयं नित्यसिद्धस्य भूतार्थस्य सत्यस्य वस्तुनः स्वभावः, यत् खलु शास्त्रीयेन प्रमाणेन प्रत्यक्षीकरणाहतासत्त्वम् ; यथा खलु (वस्तुतः) अमेयस्यापि सतः ब्रह्मात्मनो दर्शनं स्वस्वरूपानुभूतिरूपपरम्, तच्च अनन्यसाधारणं अशक्यसम्पादमपि तपसा शास्त्रदृष्ट्या च इदानीमपि सुसम्पादमेवेति सर्वषामपि विदुषामभ्युपगतमेव शास्त्रसिद्धं तत्त्वम्, तत् तथैव सत्यमिति चेत् वेदमन्त्रदर्शनस्यापि तत्समानमेव भवितुमर्हतीति यथा शास्त्रं तदभ्युपगन्तव्यमेवेति निर्विवादम् | परब्रह्मणः साक्षात्कारे यदि ईदृशी शक्यताकथा चेत् किं पुनर्वक्तव्यं प्रत्यक्षस्य शब्दब्रह्मणो वेदस्य दर्शने तत् समानमिति; अस्मिन्नर्थ ऋषेवरातस्य तपसा दिव्यदर्शनेन च समाविभूतं " छन्दोदर्शनम्' तदिदमेव प्रत्यक्षं प्रमाणम् ,तदेतदपि समर्थितमस्माभिः विश्वमीमांसायाम् -
" इदानीमपि मन्त्राख्यां सत्यसन्धो महायशाः ।
प्रदिशन् आत्मदृष्टिभ्यो दैवरातः प्रदृश्यते " || इति ॥