________________
यथानुभूतमेव अन्तरुद्गारेण स्वात्मचैतन्यसत्त्वसंस्फुरणेन अकृत्रिमया परया वाचा स्वबुद्धिकृतिकल्पनामन्तरेण यदनूद्यते सा दिव्या वागपि वेदशब्देन व्यवह्रियते, कार्यऽपि कारणगुणोपचारादिनियमदर्शनात् |
अस्मिन्नर्थे ऋङ्मन्त्रवण एव प्रत्यक्षं प्रमाणम्
" हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः सं यजन्ते सखायः । अत्राह त्वं विजहुर्वेद्याभि रोहब्रह्माणो विचरन्त्यु त्वे" ॥
(ऋ. मं. १०-७१-८) इति | अत्रेदं यास्कनिरुक्तं
“ यद् वै किञ्च अनूचानोऽभ्यूहति आर्षं तद् भवति" इति । एतेन ऋषीणां तपसा अभ्युदितं अतीन्द्रियं दर्शनरूपं ज्ञानमेव वेदः, तस्य छन्दसा शब्दरूपेण अनुश्रवणात् श्रुतिरिति च सम्पद्यते; तथा च वेदप्रमाणचर्चायां तत्सूत्रम्, “ दर्शनं यत् समष्टे: करणेन स्वकीयेनेव वा अन्तर्हृदये परत्र परहृदये वा गुप्तमर्थमृषिः पश्यति" इति ॥
अथ “अनन्ता वै वेदाः" इति श्रुतेः अनन्तत्वेन प्रसिद्धः स तादृशो वेदः ऋषिदर्शनात् प्रागेव परमे व्योमनि परे ब्रह्मणि अक्षरात्मनि सत्यरूपे अखण्डशब्दब्रह्मतन्मात्ररूपेण स्वयं नित्यं प्रतिष्ठितः सन् चिन्मात्र एव आस, येन स्वयमीश्वरोऽपि इदं विश्वं निर्मिमाय इति श्रूयते | तथा च कुत्सस्य आर्ष ऋङ्मन्त्रदर्शनम्
" स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा | आपश्च मित्रं धिषणा च साधन देवा अग्निं धारयन् द्रविणोदाम्" ||
(ऋ. मं.१-९६-१) " स पूर्वया निविदा कव्यताऽऽयोरिमाः प्रजा अजनयन्मनूनाम् ” (२) इति च ॥
" अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यत: सर्वाः प्रवृत्तयः" || इति च स्मृतिः ॥
तस्मात् स्वयमेव परमाकाशे विश्वरूप-परब्रह्मवाचकात्मना विद्यमान एव वेदः ऋषिभिः तपसा अन्तर्दशा च दृष्टः श्रुतश्च सन् वेदशब्दार्हो बभूव | तस्य वेदस्य प्रसिद्ध अपौरुषेयत्वं पुरुषमतिकल्पितत्वाभावात् ; ईश्वरकृतित्वं तु तत्प्रेरितत्वात्। अत्र सर्वस्यैव जगत: ईश्वरप्रेरितत्वाविशिष्टत्वेऽपि ऋषीणां वेददर्शने तु अगत्या सम्भावनीयः अनन्यसाधारणः अस्ति कश्चिद् विशेषः इति उन्नीयते |