________________
छन्दोदर्शने श्री वासिष्ठगणपतिमुनिना विरचिता वासिष्ठान्वयभाष्यभूमिका ।
श्रीछन्दोदर्शने पूर्णे देवरातर्षिसंश्रुते ।
वासिष्ठान्वयभाष्यस्य भूमिकेयं वितन्यते ॥ सुविदितमेवेदं सर्वेषां शास्त्रचिन्तकानां विदुषाम्, “वेद" एव स्वतःसिद्धं प्रधानं प्रत्यक्षं प्रमाणम् – संवैष्वपि अर्थषु प्रत्यक्ष-परोक्ष-अपरोक्षसिद्धेषु अन्यनिरपेक्षेण अतीन्द्रियार्थादिसर्वार्थतत्त्वबोधकत्वादिति ; तदपि दर्शनत्वादेवेति विस्तरेण मीमांसितं " विश्वमीमांसायाम् ” “ वेदप्रमाणचर्चायाम्"; तदेवात्र सक्षेपतो निर्दिश्यते सतां दिग्दर्शनार्थम् । तथा हि ऋङ्मन्त्रवणं अनुश्रूयते“ यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम्"
(ऋ.मं. १०-७१-३) इति ऋङ्मन्त्रवर्णात्-यज्ञरूपेण योगेन तपसः पूर्वे महर्षयः ऋषिषु विज्ञानेन सत्येन. अनुभावरूपेण प्रविष्टां अन्तर्हितां वेदात्मिकां संवित्स्वरूपां छन्दस्वती तां परां वाचं ईशप्रेरितया दिव्यया अन्तर्दशा ते स्वयमेव भगवदनुग्रहेण अन्वविन्दन्–प्राप्नुवन् इति गम्यते |
सा च छन्दोमयी वागपि काव्यरूपा गायत्रादिछन्दोनिबन्धनक्लप्ता प्रत्यक्षब्रह्मसज्ञका मन्त्रलक्षणतत्त्वसंहितेति प्रतीयते ; “ऋषिर्विप्रः काव्येन" (ऋ.मं. ८-८९-१) “सद्यः काव्यानि बळधत्त विश्वा” (ऋ. मं. १-९६-१) “स पूर्वया निविदा कव्यताऽऽयोः” (२) इत्यादिभिः ऋङ्मन्त्रपादैः तथा समर्थनात् इति |
अत एव “ ऋषिदर्शनात्" इति यास्कनिरुक्तमपि सङ्गच्छते, तच्च आर्ष वेदमन्त्रदर्शन समष्टेः करणेन तत्प्रेरणया च ऋषिभिः तपसा दृष्टं साक्षात्कृतं स्वान्तरनुभावसिद्धं अतीन्द्रियं सत्यवस्तुतत्त्वार्थविज्ञानमेव भवितुमर्हति, तदेव ज्ञानं वेदः इत्यनूद्यते, अपि च तदेव विज्ञानं
[a]