________________
viii
छन्दोदर्शनाविर्भावः अस्मिन् छन्दोदर्शने यत् ( सत्यं ) मया प्रत्यक्षीकृतं तदेव यथार्थमनूद्यते सर्वतः प्रकाशार्थं सर्वेषां प्रतिबोधार्थम् ||
अयं मे शिष्यवर्गेषु अन्यतमो देवरातः, सोऽयं बाल्ये वयसः षोडशवर्षभ्यः प्रागेव योगनिष्ठः सन् मया सहैव गोकर्णात् प्रस्थितः श्रीभगवतो रमणमहर्षेदर्शनार्थं अरुणाचलमुपागच्छत्, तत्र च श्रीमहर्ष: अखण्डसहजसमाधिनिष्ठायाः सन्दर्शनेन तादृशीमन्तनिष्ठां स्वयमपि अनुभवितुं अनवरतं परमे साधने तपसि निरतोऽभूत् ; तथाऽपि गुरुसेवातत्परतया मया सह पडवेटनामकं श्रीरेणुकाम्बाक्षेत्रं प्रति समागच्छत, तत्र १८३९ तमे शालिवाहनशके भाद्रपदमासे शारद्यां नवरात्र्यां मात्रा गुरुपत्न्या सौभाग्यवत्या श्रीविशालाक्ष्या मया च सहैव प्रथमत: श्रीरेणुकाम्बायाः सन्निधौ मन्त्रयोगपूर्वकं तपः समाचरत् । ततश्च पुनरुत्तरत्रापि तीव्र तपश्चरत: तस्यास्य दैवरातस्य मुखात् समाधिदशायां केचन शब्दाः प्रादुरभूवन् | ततः दिनद्वयानन्तरं तन्मार्गणे सा वैदिकी छन्दोमयी वागिति अभूत तत्र मम मनीषा, तत्र समाद्यौ देवरातस्य मुखाद् योगावेशेनोदीर्णं तद् वाग्विनिःसरणमनुलक्ष्य तदिदं “ छन्दोदर्शनं " मयैव सगृह्य यथाश्रुतमेव समुल्लिख्य प्रकाश्यं नीतम् | अथ च शिष्यवात्सल्यात् “बालादपि सुभाषितम् ” इति अभियुक्तानां वचनानुसारेण तत्र आर्षदर्शनगौरवानुदर्शनेन च तस्निन्नेव समये इदं वासिष्टमन्वयभाष्यमपि स्वयमहमेव व्यरचिषम् ।
अत्र केचन मन्त्रा: लेखनानवसरतया निर्गताः, केचन स्पष्टतया गृहीतुमशक्यतया वृथा गताः, केचित्तु अर्धर्चशः पादशश्च लिखितुं उपलब्धाः, तान् सर्वानपि परित्यज्य ये खलु स्पष्टतया पूर्णतया च लिखितुं उपलब्धाः तानेव सङ्गृह्य तदर्थप्रकाशनाय अनेन अन्वयभाष्येण योजितवानस्मि । तथैव मन्त्राणां सूक्तानां च केषांचित् तस्मिन् दर्शनावसरे पूर्वापरीभावोऽप्यासीत, तदपि संविमृश्य देवतादिपरत्वेन विभागशः तेषां सूक्तानां अनुवाकानां च योजनेन तदनुक्रमेणैव भाष्यमिदं विरचितम् ॥ ___अत्रायं विशेषः - सोऽयं कुमारः सम्प्रति पञ्चविंशतिवर्षवयस्को दैवरात: विशेषतः संस्कृतभाषायामव्युत्पन्नमतिरपि बाल्यादेव निरंतरं तपोयोगादिसाधननिरत: सन् अनन्यसाधारणं यदिदं वैदिकं “ छन्दोदर्शनम्" अपश्यत्, तस्मात् तदिदं दिव्यं आर्षदर्शनमेवेति प्रतिज्ञायते, तदिदं छन्दोदर्शनं प्रसिद्धाभिग्भि: समानमेवास्ति, छन्दतः स्वरत: शब्दतः अर्थत: तत्त्वदर्शनतश्चेति शास्त्रदृशा सर्वथा प्रतीयते, तदिदं सर्वमपि अस्य प्रत्यक्षदर्शनेन स्पष्टीभविष्यति ; तस्मात् तदिदं सदसद्विवेकशालिनो विद्वांसः समदृशो निष्कल्मषहृदया एव विमर्शितुं अभिमन्तुमर्हन्ति भवन्तः इति विज्ञापये ॥
एवं देवरातोऽयं तपस्वी योगी च सन् अध्यात्मतत्त्ववेत्ता वेदमन्त्रद्रष्टा च भवन् तेन योगेन तपसा विद्यया सदाचारेण सद्वृत्तेन विनयादिना च प्राचां महर्षीणां अलङ्कृतं " ब्रह्मर्षिपदम् ” अर्हतीति सौहार्दैन अभिमन्ये ||