Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 13
________________ छन्दोदर्शने श्री वासिष्ठगणपतिमुनिना विरचिता वासिष्ठान्वयभाष्यभूमिका । श्रीछन्दोदर्शने पूर्णे देवरातर्षिसंश्रुते । वासिष्ठान्वयभाष्यस्य भूमिकेयं वितन्यते ॥ सुविदितमेवेदं सर्वेषां शास्त्रचिन्तकानां विदुषाम्, “वेद" एव स्वतःसिद्धं प्रधानं प्रत्यक्षं प्रमाणम् – संवैष्वपि अर्थषु प्रत्यक्ष-परोक्ष-अपरोक्षसिद्धेषु अन्यनिरपेक्षेण अतीन्द्रियार्थादिसर्वार्थतत्त्वबोधकत्वादिति ; तदपि दर्शनत्वादेवेति विस्तरेण मीमांसितं " विश्वमीमांसायाम् ” “ वेदप्रमाणचर्चायाम्"; तदेवात्र सक्षेपतो निर्दिश्यते सतां दिग्दर्शनार्थम् । तथा हि ऋङ्मन्त्रवणं अनुश्रूयते“ यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम्" (ऋ.मं. १०-७१-३) इति ऋङ्मन्त्रवर्णात्-यज्ञरूपेण योगेन तपसः पूर्वे महर्षयः ऋषिषु विज्ञानेन सत्येन. अनुभावरूपेण प्रविष्टां अन्तर्हितां वेदात्मिकां संवित्स्वरूपां छन्दस्वती तां परां वाचं ईशप्रेरितया दिव्यया अन्तर्दशा ते स्वयमेव भगवदनुग्रहेण अन्वविन्दन्–प्राप्नुवन् इति गम्यते | सा च छन्दोमयी वागपि काव्यरूपा गायत्रादिछन्दोनिबन्धनक्लप्ता प्रत्यक्षब्रह्मसज्ञका मन्त्रलक्षणतत्त्वसंहितेति प्रतीयते ; “ऋषिर्विप्रः काव्येन" (ऋ.मं. ८-८९-१) “सद्यः काव्यानि बळधत्त विश्वा” (ऋ. मं. १-९६-१) “स पूर्वया निविदा कव्यताऽऽयोः” (२) इत्यादिभिः ऋङ्मन्त्रपादैः तथा समर्थनात् इति | अत एव “ ऋषिदर्शनात्" इति यास्कनिरुक्तमपि सङ्गच्छते, तच्च आर्ष वेदमन्त्रदर्शन समष्टेः करणेन तत्प्रेरणया च ऋषिभिः तपसा दृष्टं साक्षात्कृतं स्वान्तरनुभावसिद्धं अतीन्द्रियं सत्यवस्तुतत्त्वार्थविज्ञानमेव भवितुमर्हति, तदेव ज्ञानं वेदः इत्यनूद्यते, अपि च तदेव विज्ञानं [a]

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 524