Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ र भुवन | ग्रीष्मवृष्टिरिव चातककुटुंबेन, सहकारतरुपंक्तिरिव प्रचंडचंडांशुकरनिकरोपततेन, पीयूषपूरितकूपिकेव महारोगोपद्रुतेन, कुतोऽपि पुण्योदयात्समुपलब्धा मया युष्मदागमवार्ता. तत् श्रवणानंतरमेव च महाहवे। हेतिनिवहोपहन्यमानो महाकातरः शरण्यसुभटपृष्टमिव हर्षभरनिर्भरः प्राप्तोऽहं युष्मच्चरणद्वयं. ततो | विधाय मयि प्रसादं कृत्वा च कारुण्यं कथ्यतां किमत्र मम शरणं भविष्यतीति. ततो दशनदीधितिनिदलिततमःपटलो मुनींद्रः प्राह महाराज! तत्तत्र तव शरणं भविष्यति यत्प्रतिपन्नमन्यैरपि भवाहशैर्विशेषतस्त्वस्माभिरिति. एतदाकर्ण्य राजा सविस्मयमीषद्विहस्यावोचत्-भगवन् भवतामपि जगदेकशरणानामन्यः कोऽपि शरण्यमिति महदाश्चर्यमिति निवेद्यतां कोऽयं व्यतिकरः? ततो मुनीश्वरः प्राह महाराज! महतीयं कथा. सव्याक्षेपाश्च भवंतः, तत्किमत्र निवेद्यते? महिपतिरुवाच मैवमादिशंतु व भगवंतः, न हि मंदोऽपि पीयूषपानमासादयन्नुत्सुको भवति विषपानाय. शिखंडिन इव मेघागमो मम / समवलोकयत एवागता यूयं, नास्ति ममान्यः कोऽपि व्याक्षेपः, ततो निर्विकल्पं प्रोणयंतु पूज्याः व सुचिरमपि मदीयश्रवणयुगमिदं स्ववचनामृतप्रक्षेपेण. ततो जगाद ज्ञानी श्रूयतां तवहितेन चेतसा. अस्तीहानंतलोकस्य / निवासः सर्वसंपदां // निकेतनं समस्तैश्च / न निर्मुक्तं नरोत्तमैः // 1 // "

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 126