Book Title: Bhuvanbhanu Kevali Charitram Author(s): Indrahans Gani Publisher: Vitthalji Hiralal Hansraj View full book textPage 5
________________ भुवन वरि // 3 // 回回回回回回回回回回回回回回回回回回回回回回回 जतिलका करकलितस्फुरत्कनकदंडा पीनपयोधरावल्लुठन्निर्मलामलकस्थूलमुक्ताफलहारहारिणी प्रतिहारी || प्रविश्य प्रणम्य च सहर्ष भूपंप्रति विज्ञपयति, हे स्वामिन् समागतोऽस्ति प्रतिहारभूमौ देवनियुक्तः नि | पूर्वदिगुद्यानपालकः, अतस्तस्य कः समादेशः ? राज्ञोक्तं भो प्रतिहारि तं सत्वरमत्र प्रवेशय? तयापि | तथैव कृते स उद्यानपालकस्तत्रागत्य विनयेन भूपं प्रणम्य शिरोन्यस्तकरकुद्मलः सहर्षमवादीत्. अभि- नंद्यसे देव प्रचुरसुरखचरनरनिवहानुगतस्य पवित्रीकृतपूर्वदिगुद्यानभूभागस्य सुगृहीतनामधेयस्य भुवन- भानुनाम्नः केवलिनः समागमनेन. ततः समाकर्णिततद्वचनो भूपालः सिक्त इव पीयूषवर्षेण, विलिस न इवाकस्मात्सरसमलयजरसेन, समालिंगित इवानरक्तत्रिभवनश्रिया, अवगाढ इव रतिसागरे, क्षणम. जन्मिलीतलोचनो वचोऽगोचरं किमप्यनुभूय सुखं ददौ तस्मै पारितोषिकभूरिदानं. ततोऽसौ भ्रूक्षेपमात्र प्रगुणीकृतसमग्रसामग्रीकश्च समारूढः केलासशैलानुकारिमहाकरिवरस्कंध, प्रतिहतसूरप्रतापः सुरासुरमथ्यमानक्षीरनीरधिडिंडीरपिंडपांडुरमहापुंडरीकेण, वीज्यमानमूर्तिः शरच्चंद्रचारुचामरनिचयेन, वेष्टितः | करिघटाभिः, परिकरितस्तुरंगसमुहैः, परिवारितो रत्ननिर्मितरथनिकरैः, शोभितः सुभटकोटिभिः प्राप्तः | क्रमेण पूर्वदिगुद्यानं, आगतश्च भगवतः केवलिनो लोचनगोचरं, दूरादवतीर्णः करिवरात. ततोऽतिहृष्टः / // 3 // ELED DIEODODDDDDDDDDDDIE DIPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 126