________________
शीतोष्णाभ्यामप्येवमेव १२८, एवं स्निग्धरुक्षाभ्यामपि १२८, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह - ' एवं सत्तफासे पंच वारसुत्तरा भंगसया भवंती 'ति । 'अडफासे' इत्यादि, चतुर्णां | कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति, तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च | स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्र पुस्तके चतुष्ककेन सूचिताः, तथैतेष्वेवा|ष्टासु पदेपूष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः ४, एवं शीतपदेन बहुवचनान्तेनैव ४, तथा शीतोष्ण| पदाभ्यां बहुवचनान्ताभ्यामेत एव ४ एवं चैते १६, तथा लघुपदेन बहुवचनान्तेनैत एव ४, तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं लघूष्णपदाभ्यां ४, एवं लघुशीतोष्णपदैरिति ४ एवमेतेऽपि षोडश १६, एतदेव दर्शयति' एवं गुरुएणं एत्तएण मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुशीताभ्यां ४, एवं गुरुशीतोष्णैः ४ एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुलघुष्णैः ४, एवं गुरुलघुशीतैः ४, एवं गुरुलघुशीतोष्णैः ४, एतेऽपि षोडश, सर्वेऽप्यादित | एते चतुःषष्टिः 'कक्खडम एहिं एगन्तेहिं ति कर्कश मृदुपदाभ्यामेकवचनवद्भयां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, 'ताहे 'ति तदनन्तरं 'कक्खडेणं एगन्तएणं'ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउएणं पोहत्तएणं' ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः 'एते चेव त्ति एत एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, 'ताहे कक्खडेण' मित्यादि, 'ताहे 'ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org