Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SECONDSSSSS
तस्य साक्षादभावात् , मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति । 'सहाणेणं लोगस्स असंखेजइभागे'त्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्यासंख्येयभागवर्तित्वात् , पृथिव्यादीनां च पृथिवीकायिकानां स्वस्थानत्वादिति, 'सहाणाई सवेसिं जहा ठाणपए तेसिं पजत्तगाणं बायराणं'ति, इह तेषामिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां 'अट्ठसु पुढवीसु तंजहा-रयणप्पभाए' इत्यादि, बादराप्कायिकानां तु 'सत्तसु घणोदहीसु' इत्यादि, बादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते' इत्यादि, बादरवायुकायिकानां पुनः 'सत्तसु घणवायवलएसु'इत्यादि, बादरवनस्पतीनां तु 'सत्तसु घणोदहीसु'इत्यादि । 'उववायसमुग्घायसहाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं ति, इह 'तेसिं चेव'त्ति पृथिवीकायिकादीनां, तानि चैवं-'जत्थेव बायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता उववाएणं सबलोए समुग्धाएणं सबलोए सट्ठाणेणं लोगस्स असंखेज्जइभागे'इत्यादि, समुद्घातसूत्रे-'दोन्नि समुग्घाय'त्ति, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्घातानामसम्भवादिति ॥ 'अणंतरोववन्नगएगिदिया णं भंते! किं तुल्लटिईए'इत्यादौ, 'जे ते समाउया समोववन्नगा ते णं तुल्लटिईया तुल्लविसेसाहियं कम्मं पकरेति'त्ति ये समायुषः अनन्तरोपपन्नकत्वप| र्यायमाश्रित्य समयमात्रस्थितिकास्तत्परतः परम्परोपपन्नकव्यपदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति 'तत्थ णं जे ते समाउया विसमोववन्नगा ते
तुल्लविइया वेमायविसेसाहियं कम्मं पकरेंति'त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समयादिभेदेनोत्पत्ति
RAMMAUSAMALEGAMANG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654