Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 631
________________ 'वेयणिज्जवज्जाणं सत्तण्हं पगडीणं बन्धगा वा अबन्धगा वत्ति, इह वेदनीयस्य बन्धविधिं विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवजनामित्युक्तं, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति 'वैयणिज्जरस बन्धगा नो अबन्धग'त्ति, केवलित्वादारात्सर्वेऽपि सञ्ज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्ध| काः 'मोहणिज्जस्स वेयगा वा अवेयगा वत्ति मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, "सेसाणं सत्तण्हवि वेयगा नो अवेयगत्ति ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो अवेदकाः, केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पंचेन्द्रिया इति । 'सायावेयगा वा | असायावेयगा वत्ति, सञ्ज्ञिपश्ञ्चेन्द्रियाणामेवस्वरूपत्वात्, 'मोहणिज्जस्स उदई वा अणुदई वत्ति, तत्र सूक्ष्मस - | म्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः 'सेसाणं सत्तण्हवी' त्यादि, प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम् उदयस्त्वनुक्रमागतानामिति । 'नामगोयस्स उदीरगा नो अणुदीरग'त्ति, नामगोत्रयोरकषायान्ताः सञ्ज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, 'सेसाणं छण्हवि उदीरगा वा अणुदीरगा व'ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमत्तानां सामान्येनाष्टानां, आव |लिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जानां षण्णां तथा सूक्ष्मसम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पञ्चानामपि, उपशान्तमोहास्तू करूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेव अयोगिनस्त्वनु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654