Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 646
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२] टीकाकारप्रशस्तिः AUGUSAMACRORSCARSA यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम् । सुखाधिगम्योऽस्त्विति पूर्वगुवी, प्रारभ्यते वृत्तिवरत्रिकेयम् ॥१॥ समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः । सगुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा ॥२॥ चांद्रे कुले सदनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् । छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् ॥ ३ ॥ तत्पुष्पकल्पी विलसद्विहारसद्गन्धसम्पूर्णदिशौ समन्तात् । बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ ॥ ४॥ एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि वुद्धिसागरः। तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवमूरिणा ॥५॥ तयोरेव विनेयानां, तत्पदं चानुकुर्वताम् । श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः॥६॥ श्रीमजिनेश्वराचार्यशिष्याणां गुणशालिनाम् । जिनभद्रमुनीन्द्राणामस्माकं चाहिसे विनः ॥७॥ यशश्चन्द्रगणेाढसाहाय्यात्सिद्धिमागता। परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः ॥ ८॥ युग्मम् । CAREERASHASAMANCS ॥९८०॥ Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654