Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 647
________________ Jain Education International शास्त्रार्थनिर्णय सुसौरभ लम्पटस्य, विद्वन्मधुत्रतगणस्य सदैव सेव्यः । श्रीनिर्वृताख्य कुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः ॥ ९॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्क निकषणकषपट्टककल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदयं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति । मन्महतस्तांश्च विहाय सद्भिस्तद्ब्राह्ममाप्ताभिमतं यदस्याम् ॥ ११ ॥ यदवाप्तं मया पुण्यं वृत्ताविह शुभाशयात् । मोहाद्वृत्तिजमन्यच्च तेनागो मे विशुयात् ॥ १२ ॥ प्रथमादर्शे लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्तिं दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेय मच्छुतध निवसतौ ॥ १५ ॥ अष्टादश सहस्राणि षट् शतान्यथ षोडश । इत्येवमानमेतस्याः, श्लोक मानेन निश्चितम् ॥ १६॥ अङ्कतोऽपि १८६१६ ॥ इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654