Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 643
________________ USHUSHUSHAUS मम् 'उपजीवन्ति' आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्तिः उत्पत्तौ सर्वेषामप्यविरतत्वादिति ॥ इह च शतपरिमाणमिदम्-आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि ३२ त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवा|न्तरशतानि द्वादश ८४ चत्वारिंशे त्वेकविंशतिः २१ एकचत्वारिंशे तु नास्त्यवान्तरशतम् १, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति, । एवमुद्देशकपरिमाणमपि सर्व शास्त्रमवलोक्यावसेयं, तच्चैकोनविंशतिशतानि पञ्चविंशत्यधिकानि ॥ इह शतेषु कियत्स्वपि वृत्तिका, विहितवानहमस्मि सुशङ्कितः। विवृतिचूर्णिगिरां विरहाद्विहक्, कथमशङ्कमियय॑थवा पथि? ॥१॥ एकचत्वारिंशं शतं वृत्तितः परिसमाप्तम् ॥४१॥ अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहचुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं । भावाभावमणंता पन्नत्ता एत्थमंगंमि ॥१॥ 'चुलसी'त्यादि, चतुरशीतिः शतसहस्राणि पदानामनाङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला ये ते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह-'भावाभावमणंत'त्ति 'भावा-जीवादयः पदार्थाः अभावाश्च-त एवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाच्चेत्थंनिर्देशः 'अनन्ताः' अपरिमाणाः अथवा भावाभावै १ यद्यपि संग्रहणीगाथानुसारियन्त्रकानुसारेण त्रयोविंशत्यधिकमेकोनविंशं शतमुद्देशकानां भवति परं वादान्तराभिप्रायेण विंशतितमे शतके द्वादशोद्देशकाः यतस्तत्र न प्रस्तुतवाचनायामिव षष्ठः पृथ्ब्युद्देशकः पृथ्व्यब्वायुखरूपाभिधायां किंतू शकत्रयमेव भिन्नं, अत्र तु प्रयाभिधाय्यपि पृथ्व्युपलक्षणत्वात् पृथ्व्युद्देशकस्न-1 याभिधाय्यप्येक एवेति। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654