Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 586
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९५० ॥ 'रायगिहे' इत्यादि, 'खुड्डा जुम्मत्ति युग्मानि - वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः, तत्र चत्वारोऽष्टौ द्वादशेत्यादिसङ्ख्यावान् राशिः क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिस तैकादशादिको क्षुल्लक योजः, द्विपट्प्रभृतिकः क्षुल्लकद्वापरः, एकपश्चकप्रभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वक्कंतीए 'त्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवं-पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु 'अस्सन्नी खलु पढम' मित्यादि - गाथाभ्यामवसेयः, 'अज्झवसाण'त्ति अनेन 'अज्झवसाणनिवत्तिएणं करणोवाएणं' ति सूचितम् ॥ एकत्रिंशशते प्रथमः | | ॥ ३११ ॥ द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जहां वकंतीए धूमप्पभापुढविनेरइयाणं' ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूम - प्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासञ्ज्ञिसरीसृपपक्षिसिंहवज इति ॥ ३११२ ॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जो वालुयप्पभाए'त्ति, इह नीललेश्या प्रक्रान्ता सा च वालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासञ्ज्ञिसरीसृपवर्जा इति । 'परिमाणं जाणियवं'ति, चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः ॥ ३१३ ॥ चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवी - ष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति 'उववाओ जो रयणप्पभाए'त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । शेषं सूत्रसिद्धम् ॥ एकत्रिंशं शतं वृत्तितः समाप्तम् ॥ ३१ ॥ Jain Education International For Personal & Private Use Only ३१ शतके उद्दे. १-२८ क्षुल्लकयुमादीना मुत्पादः सू |८२९-८४१ ।। ९५० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654