SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९५० ॥ 'रायगिहे' इत्यादि, 'खुड्डा जुम्मत्ति युग्मानि - वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः, तत्र चत्वारोऽष्टौ द्वादशेत्यादिसङ्ख्यावान् राशिः क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिस तैकादशादिको क्षुल्लक योजः, द्विपट्प्रभृतिकः क्षुल्लकद्वापरः, एकपश्चकप्रभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वक्कंतीए 'त्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवं-पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु 'अस्सन्नी खलु पढम' मित्यादि - गाथाभ्यामवसेयः, 'अज्झवसाण'त्ति अनेन 'अज्झवसाणनिवत्तिएणं करणोवाएणं' ति सूचितम् ॥ एकत्रिंशशते प्रथमः | | ॥ ३११ ॥ द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जहां वकंतीए धूमप्पभापुढविनेरइयाणं' ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूम - प्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासञ्ज्ञिसरीसृपपक्षिसिंहवज इति ॥ ३११२ ॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति 'उववाओ जो वालुयप्पभाए'त्ति, इह नीललेश्या प्रक्रान्ता सा च वालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासञ्ज्ञिसरीसृपवर्जा इति । 'परिमाणं जाणियवं'ति, चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः ॥ ३१३ ॥ चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवी - ष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति 'उववाओ जो रयणप्पभाए'त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । शेषं सूत्रसिद्धम् ॥ एकत्रिंशं शतं वृत्तितः समाप्तम् ॥ ३१ ॥ Jain Education International For Personal & Private Use Only ३१ शतके उद्दे. १-२८ क्षुल्लकयुमादीना मुत्पादः सू |८२९-८४१ ।। ९५० ॥ www.jainelibrary.org
SR No.600226
Book TitleBhagwati sutram Part 03
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1921
Total Pages654
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy