Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ जान्युआरी - २०१८ ३४. वर्षाकाले पयोराशिः कथं गर्जितवर्जितः । गुप्तं सुप्तजगन्नाथ-निद्राभङ्गभयादिव ।। ३५. पार्वतीपरिणयादनन्तरे स्थापिते शिरसि शङ्करे तदा । ___घोटकोर्दनकृते सुरङ्गया गङ्गया शिरसि शङ्करः कृतः ॥ ३६. भित्तिस्थोत्तमचित्रस्थं सजलस्थालबिम्बितम् । मक्षिकापादघातेन कम्पितं भुवनत्रयम् ॥ ३७. फणीन्द्रनासासंक्षोभं कम्पमाने फणागणे । मक्षिका० ॥ ३८. तत्कण्ठे गरलं विराजतितरां १ शीर्षे च मन्दाकिनी २ उत्सङ्गे च शिवामुखं ३ कटितटे शार्दूलचर्माम्बरम् ४ । माया यस्य रुणद्धि विश्वमखिलं तस्मै नमः शम्भवे जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ३९. श्रीमत्कुम्भतनूद्भवेन मुनिना निष्पीतनीरार्णवे, सम्यक्तिर्यगधःप्रसारितदृशा निर्वर्णयांचक्रिरे । श्रीकृष्णोऽमृतकुण्डकं फणिवपुः कोलोऽथ दैत्यालयः, जम्बू० ॥ ४०. सङ्ग्रामे रिपुभूभुजां मुखरुचिर्जीवश्च देवाङ्गनाः, चक्षुः प्रोल्लसदश्रुमांसनिवहैस्तन्मेदिनीमण्डलम् । तद्व्याप्योद्गतबाणसंहतिरभूच्छीरामभूमीपतेः जम्बू० ॥ ४१. अस्याः केशकलापकान्तिविभवो भालस्थितं मौक्तिकं चक्षुः प्रेमलसत्कपोलफलके कस्तूरिकामण्डनम् । भ्रूभङ्गीभिरतरतस्मि(?रितस्ततः)स्तबकितैराकृष्य बद्धं मनः, जम्बू० ॥ ४२. भवस्योद्भूभाले हिमकरकलाग्रे गिरिसुता, ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रकृतिभिः(प्रतिकृतिः) । कपर्दस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुःकोटौ० ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86