________________
जान्युआरी - २०१८ ३४. वर्षाकाले पयोराशिः कथं गर्जितवर्जितः ।
गुप्तं सुप्तजगन्नाथ-निद्राभङ्गभयादिव ।। ३५. पार्वतीपरिणयादनन्तरे स्थापिते शिरसि शङ्करे तदा । ___घोटकोर्दनकृते सुरङ्गया गङ्गया शिरसि शङ्करः कृतः ॥ ३६. भित्तिस्थोत्तमचित्रस्थं सजलस्थालबिम्बितम् ।
मक्षिकापादघातेन कम्पितं भुवनत्रयम् ॥ ३७. फणीन्द्रनासासंक्षोभं कम्पमाने फणागणे ।
मक्षिका० ॥ ३८. तत्कण्ठे गरलं विराजतितरां १ शीर्षे च मन्दाकिनी २
उत्सङ्गे च शिवामुखं ३ कटितटे शार्दूलचर्माम्बरम् ४ । माया यस्य रुणद्धि विश्वमखिलं तस्मै नमः शम्भवे
जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ३९. श्रीमत्कुम्भतनूद्भवेन मुनिना निष्पीतनीरार्णवे,
सम्यक्तिर्यगधःप्रसारितदृशा निर्वर्णयांचक्रिरे । श्रीकृष्णोऽमृतकुण्डकं फणिवपुः कोलोऽथ दैत्यालयः,
जम्बू० ॥ ४०. सङ्ग्रामे रिपुभूभुजां मुखरुचिर्जीवश्च देवाङ्गनाः,
चक्षुः प्रोल्लसदश्रुमांसनिवहैस्तन्मेदिनीमण्डलम् । तद्व्याप्योद्गतबाणसंहतिरभूच्छीरामभूमीपतेः
जम्बू० ॥ ४१. अस्याः केशकलापकान्तिविभवो भालस्थितं मौक्तिकं
चक्षुः प्रेमलसत्कपोलफलके कस्तूरिकामण्डनम् । भ्रूभङ्गीभिरतरतस्मि(?रितस्ततः)स्तबकितैराकृष्य बद्धं मनः,
जम्बू० ॥ ४२. भवस्योद्भूभाले हिमकरकलाग्रे गिरिसुता,
ललाटस्याश्लेषे हरिणमदपुण्ड्रप्रकृतिभिः(प्रतिकृतिः) । कपर्दस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुःकोटौ० ॥