________________
१२
अनुसन्धान-७४
४३. आलोक्य बालामुखचन्द्रबिम्बं कण्ठे च मुक्तामणितारहारम् ।
पुनर्निशेशोदयभीतिरेषा सूर्योदये रोदिति चक्रवाकी ॥ ४४. मेघान्धकारप्रसरेण रुद्ध मार्तण्डबिम्बे तिमिरप्रसारे ।
जाते समन्ताद्रजनीति मत्वा सूर्योदये रोदिति चक्रवाकी । ४५. आलोक्य लोचनयुगेन सुलोचनाभ्यां (?)
स्फाराभिरामवदनामहमात्मचित्ते । श्यामालकैविलुलितैरिति चिन्तयामि
चन्द्रं महीतलगतं भ्रमराः पिबन्ति ।। ४६. नैवागमोऽत्र सुलभस्य(भोऽस्य) च मारुतस्य
स्नेहक्षयो न भवति प्रथमेऽपि यामे । अव्यक्तनूपुररवप्रतिबोधितेन
पारापतेन पतता कृतमन्धकारम् ॥ ४७. गच्छन् सरसस्तीरे कमलवने केतकीप्रिया वक्ति ।
पश्य सर: प्रतिबिम्बिततरुशिखरे तिमिरयं तरति ॥ ४८. मुशलप्रबलजलैरिह सलिलधरे वर्षति द्रुतं प्रभृते ।
भूमितले सकले किल तरुशिखरे तिमिरयं तरति ॥ ४९. बाला सखीमिति शशाङ्कमुखो बभाषे ।
हेतुं विना भ्रमर एष कथं वलक्षः । स्मित्वाह सा वदनचन्द्रिकया तवैव
लीलाम्बुजस्थितमिमं धवलं न वेत्सि ॥ ५०. हीनहत्या दधात्येव महतामपि लाघवम् ।
इति मत्वा द्विषद्वेषी मृगात् सिंहः पलायते ॥ ५१. कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम् ।
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते । ५२. जगत्त्रयीव्यापि निशान्धकार-मर्केण कालं कवलीकृतं द्राक् ।
प्रातर्निरीक्ष्याभिदधे जनौघो हस्ती प्रविष्टो मशकस्य मध्ये ॥ ५३. सर्वत्रापि प्रतापप्रबलहुतवहस्फीततापानि भूतः,
शीतलॊर्वप(?) तालीतटवननिलयो नष्टचैतन्यभावः ।