Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१८
१४. मालवे मालवो नास्ति दक्षिणे नास्ति दक्षिणा ।
पुनर्व्याघुट्य यास्यामि गूर्जर जर्जरे वरे ॥
(मा लक्ष्मीः, तस्या लवः अंशः) १५. अखाद्यः खादितो लोकैर्नीरसो रसनायकः ।
अपादो भ्रमते पृथ्वी निर्जीवो विश्वजीवनः ॥ [रूपीयो अर्थ हुवो] १६. वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः ।।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन् न भवेच्च मेघः ।। [श्रीफल] १७. कृष्णमुखी न मार्जारी, द्विजिह्वा न च सर्पिणी ।
पञ्चभी न पाञ्चाली, यो जानाति स पण्डितः ॥ [लेखण] १८. य एवादौ स एवान्ते मध्ये भवति मध्यमः ।
य एतन्न जानाति तृणमात्रं न वेत्ति सः ॥ [मध्यमः] १९. न तस्यादिर्न तस्यान्तः मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥ [नयन] २०. केशाः कञ्जालिकाशाभाः करकारविनाकिनः ।
बीबीगोगतयो दद्यु-रम्भोजाब्धिनगौकसः ॥ [?] २१. तातेन कथितं पुत्र, लिख लेखं ममाज्ञया ।
न तेन लिखितो लेखः पितुराज्ञा न खण्डिता ॥ [नतेन लिखितः]
*
*
*

Page Navigation
1 ... 80 81 82 83 84 85 86