Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७४
अनुसन्धान-७४
५. विप्रनेलामिमावैज्ञा-द्याभुमिभत्रनद्यति ।
एते यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ (वि प्र ने ला मि मा वै ज्ञा
द्या भु मि भ त्र न द्य ति) ६. राजन् ! कमलपत्राक्ष !, करेणुः करणैर्विना ।
सम्पादयति यद्रूपं, तत्ते भवतु चाक्षरं ।।
(क-र-ण विना अ-ए-उ = आयुः) ७. अष्टौ श्लोकान् कुरुष्वेति, पिता पुत्रं समादिशत् ।
पञ्च श्लोकाः कृतास्तत्र, पितुराज्ञा न लङ्घिता ।
(अष्टौ इति सप्तमी, अष्टौ जात्यां इत्यर्थः) ८. वटवृक्षो महानेषो, मार्गमावृत्य तिष्ठति ।
यावन्मार्गं न गन्तव्यं, तावन्मार्ग न मुञ्चति ॥ (वटो + ऋक्षः = वटवृक्षः) आयुक्तः प्राणदो लोके वियुक्तः श्रमणप्रियः ।
प्रयुक्तः सर्व विद्वेषी केवलः स्त्रीषु वल्लभः ॥ (हार) १० सन्तश्च लुब्धाश्च विरक्तचित्ता, विप्राः कृषीष्टाः कृमिराजकीयाः ।
किं किं किमिच्छन्ति तथैव सर्वे, नेच्छन्ति किं माधवदाघयानं ॥
(मानं, धनं, वनं, दानं, घनं, यानं; माधवदाघयानं) ११. सन्ध्यावन्दनवेलायां, त्वं तडागं द्विजोत्तमैः ।
अत्र क्रियापदं गप्तं, यो जानाति स पण्डितः ।।
(ऐः इति क्रियापदं गुप्तम् । हे द्विजोत्तम + ऐ:) १२. एकोना विंशतिः स्त्रीणां, स्नानार्थं सरसीं गताः ।
विंशतिर्गहमादाय(मायाता), शेषो व्याघेण भक्षितः ।
(ना - पुमान् । एको ना, विंशतिः स्त्रियः ।) १३. विद्यया जायते भानुर्दानेन विमलं यशः ।
अत्र षष्ठीपदं गुप्तं यो जानाति स पण्डितः ॥ (नुः - नरस्य)

Page Navigation
1 ... 79 80 81 82 83 84 85 86