SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१८ १४. मालवे मालवो नास्ति दक्षिणे नास्ति दक्षिणा । पुनर्व्याघुट्य यास्यामि गूर्जर जर्जरे वरे ॥ (मा लक्ष्मीः, तस्या लवः अंशः) १५. अखाद्यः खादितो लोकैर्नीरसो रसनायकः । अपादो भ्रमते पृथ्वी निर्जीवो विश्वजीवनः ॥ [रूपीयो अर्थ हुवो] १६. वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः ।। त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन् न भवेच्च मेघः ।। [श्रीफल] १७. कृष्णमुखी न मार्जारी, द्विजिह्वा न च सर्पिणी । पञ्चभी न पाञ्चाली, यो जानाति स पण्डितः ॥ [लेखण] १८. य एवादौ स एवान्ते मध्ये भवति मध्यमः । य एतन्न जानाति तृणमात्रं न वेत्ति सः ॥ [मध्यमः] १९. न तस्यादिर्न तस्यान्तः मध्ये यस्तस्य तिष्ठति । तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥ [नयन] २०. केशाः कञ्जालिकाशाभाः करकारविनाकिनः । बीबीगोगतयो दद्यु-रम्भोजाब्धिनगौकसः ॥ [?] २१. तातेन कथितं पुत्र, लिख लेखं ममाज्ञया । न तेन लिखितो लेखः पितुराज्ञा न खण्डिता ॥ [नतेन लिखितः] * * *
SR No.520575
Book TitleAnusandhan 2018 04 SrNo 74
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy