Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ जान्युआरी - २०१८ वैरिप्रातस्तवश्रीगजनरपतेः शर्करामत्ति यद्वद् - ग्रीष्मेऽग्नि ताम्रभूमौ धृतखग इनगो (?) तापितायां - भुंक्ते ॥ ५४. मुञ्ज श्रीरामराजन् जलधिनियमनोपक्रमं दीर्घदर्शिन् नानाशक्त्याकरोऽसौ त्रिभुवनभयदो राक्षसानामधीशः । यद्दासस्यापि विद्या विभवभवतनुः खादिरं धानिकावद् ग्रीष्मे० ॥ ५५. भूतलास्थितत्तरीनिवहोर्ध्वं तां सहस्रमुखिकां गगनाग्रे । वीक्ष्य खेचरवचोऽजनि गंगा वाहनोपरि तरन्ति समुद्राः ॥ ५६. नोसदृक्षनयनत्रितयोर्ध्वं शंभुमूर्ध्नि बहुधा प्रवहन्ती । वीक्ष्य के न जगदुः सुरसिन्धु-वाहनोपरि तरन्ति समुद्राः ॥ ५७. निपुणलोकगणो निगदेदिमां सकलसिन्धुषु मुख्यतया कथम् । स्थिति मजी जनदंडिसुतापतेः शिरसि विष्णुपदी न नदी यदि ॥ ५८. सुखमखण्डितमेव मनोमते, कथमुमा न लभेत निरन्तरम् । ननु भवे न भवेद्विनिवेशिता, शिरसि० ॥ ५९. अशुचिचर्मसमावृतवर्मणा, नरकपाल विभूषणधारिणः । शशभृतः शुचिता कथ मन्यथा, शिरसि० ॥ ६०. ननु तृतीयविलोचनवह्निजं, विततदाहमहो किमु सा सहिः गिरिसुतापतिरेष भवेत्सदा शिरसि० ॥ ६१. स्फूर्जदाहुमहाग्रहेण सहसा किञ्चिन्निगीर्णत्वतः शोणांशे परिदृश्य कज्जलनिभां के शुभ्रशेषांशके । शान्ताशो विलसत्यसौ विधिवशात्तेन प्रपूर्णोऽपि सो ऽकालाकज्जलशोणिमा धवलयत्यर्द्ध नभोमण्डलम् ॥ ६२. गङ्गायाः समवेक्षणे शिवशिरःस्थाया उमाया रुषा रक्तीभूतसकज्जलेक्षणयुगे वक्त्रामृतांशावभूत् । तस्मादर्धविसारिरश्मिततिना तेनेक्षणे तत्र सा, काला० ॥ ६३. शम्भोः शक्तिमनुत्तराणि मुमुखा(?) माकर्ण्य सर्वे सुरा, जाता: कौतुकदर्शनोत्कमनसा स्वेषां महाप्रार्थनात् ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86