Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ १२ अनुसन्धान-७४ ४३. आलोक्य बालामुखचन्द्रबिम्बं कण्ठे च मुक्तामणितारहारम् । पुनर्निशेशोदयभीतिरेषा सूर्योदये रोदिति चक्रवाकी ॥ ४४. मेघान्धकारप्रसरेण रुद्ध मार्तण्डबिम्बे तिमिरप्रसारे । जाते समन्ताद्रजनीति मत्वा सूर्योदये रोदिति चक्रवाकी । ४५. आलोक्य लोचनयुगेन सुलोचनाभ्यां (?) स्फाराभिरामवदनामहमात्मचित्ते । श्यामालकैविलुलितैरिति चिन्तयामि चन्द्रं महीतलगतं भ्रमराः पिबन्ति ।। ४६. नैवागमोऽत्र सुलभस्य(भोऽस्य) च मारुतस्य स्नेहक्षयो न भवति प्रथमेऽपि यामे । अव्यक्तनूपुररवप्रतिबोधितेन पारापतेन पतता कृतमन्धकारम् ॥ ४७. गच्छन् सरसस्तीरे कमलवने केतकीप्रिया वक्ति । पश्य सर: प्रतिबिम्बिततरुशिखरे तिमिरयं तरति ॥ ४८. मुशलप्रबलजलैरिह सलिलधरे वर्षति द्रुतं प्रभृते । भूमितले सकले किल तरुशिखरे तिमिरयं तरति ॥ ४९. बाला सखीमिति शशाङ्कमुखो बभाषे । हेतुं विना भ्रमर एष कथं वलक्षः । स्मित्वाह सा वदनचन्द्रिकया तवैव लीलाम्बुजस्थितमिमं धवलं न वेत्सि ॥ ५०. हीनहत्या दधात्येव महतामपि लाघवम् । इति मत्वा द्विषद्वेषी मृगात् सिंहः पलायते ॥ ५१. कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम् । किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते । ५२. जगत्त्रयीव्यापि निशान्धकार-मर्केण कालं कवलीकृतं द्राक् । प्रातर्निरीक्ष्याभिदधे जनौघो हस्ती प्रविष्टो मशकस्य मध्ये ॥ ५३. सर्वत्रापि प्रतापप्रबलहुतवहस्फीततापानि भूतः, शीतलॊर्वप(?) तालीतटवननिलयो नष्टचैतन्यभावः ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86