Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१८
७२. मिथ्यादृष्टेर्जनस्य प्रविशति हृदये जातु न क्षुद्ररूपे
साधू श्री वीतरागो गुरुतरमुनिभिर्मोक्षमार्गकतानैः । दृष्टः केनापि कस्मिन्नपि किमु समये क्वापि खण्डे पृथिव्यां
देवाद्रिः ॥ ७३. सेव्या सत्सरणिः प्रवीणितगुणा त्याज्योऽनिशं दुर्जनः,
क्रान्तः प्रौढमदेन गाढविपुलं कार्यं स्वकीयं मनः । पाल्यं ब्रह्म सुनिर्मलं बुधवचः श्रव्यं विवेकार्थिना
गङ्गावद् गजगण्डवद् गगनवद् गाङ्गेयवद् गेयवत् ॥ ७४. कोपादुदस्यत रसागगनाग्रगत्वा(?)
वृत्त्यन्तसूक्ष्ममवलोकितमन्मुखेन । भीमेन सम्भ्रमविसंस्थलकेशसंस्थ
लिक्षामुखे करिशतं हरिणाधिरूढम् ॥ ७५. कैषा भूषाक्षिरोम्णां तव भुजगपते रेषयामास भूत्या
धूतैर्मन्मूनि शम्भुः सदशनवसतानक्षपाताद्विजित्य । गौरात्वानंजदृष्टीजितनखनवभूस्तद्विशेषात्तदित्थं
शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः ॥ ७६. कश्चिद्वायससुस्वरश्रवणतो जातप्रियासंगम
प्रत्याशोऽभिमतार्थसाधनपटुं कूर्मावतारं हरिम् । सर्वानिष्टहरं हरं च बहुधाराध्याप्यसिद्धे स्मितः
काकं कूर्ममुमापति समशपत् कान्तावियोगातुरः ॥ ७७. कल्याणैकनिकेतनं सकृद--गेन संवीक्षितः
सा श्रीमल्लिजिनेश्वरस्य तनया तस्यैव जायाजनि । संजाता: सकला अपि प्रतिकलं सम्पत्तयो हस्तगाः
प्रक्षीणा विपदस्तदस्य निखिला दुःखप्रकर्षप्रदाः ॥ ७८. यामुनेऽम्बुनि तमस्ततिकल्पे, स्याद्यदोपरिगतः प्रतिबिम्बम् ।
चिन्त्यते स्म जगतीह तदा किं, कज्जलैः कलुषितो रविरेषः ॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86