Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ १४ अनुसन्धान-७४ इत्थं रूपविधानतः सपदि तां संव्यञ्जयामासिवान्, भृङ्गो भूमिधरं दधार मशकस्तया ( ?स्या ) बलं चागिलत् ॥ ६४. देवानां नितरामचिन्त्यमहिमा प्रोज्जृम्भते विष्टपे, यस्मादाभरणत्वतः खलु महादेवस्य संसेवनात् । विष्णोर्या तनया विलासवसतित्वेनामराणां पुननागेश: खगराजमत्ति स महामेरुं स चापीश्वरम् ॥ ६५. लङ्केशे विकटे बलोत्कटभटैः सण्टङ्किते कोटिशो रामेणेह सहायवारवियुतेनापि क्षयं प्रापिते । तज्ज्ञैः कैरिति तर्कितं स्वहृदि नासम्भाव्यमप्यते (?) किं, नागेश: ० ॥ ६६. आस्तां प्रवृद्धा धिषणा विशुद्धा विनेयवारस्य गुणान्वितस्य । प्रबोधरूपं सुगुरुप्रयोगात् सूते सुतं गर्भगता कुमारी ॥ ६७. प्रकोपरूपोऽखिलदुर्जनाना-मस्तोकलोकमिति दाहदायी ( ? ) । रसाचितानुत्तरसामवाक्य पयोधिना वह्निरुपैति वृद्धि ॥ ६८. देव त्वद्वैरियात्रासमयसमुचिते मंगलालीविलासे नृत्यन्त्यादत्तमौलिभ्रमिकरणजुषस्ताण्डवाडम्बरेण । आयासोल्लालवक्षोरुहघुसृणरजःपातदोषोद्भवेन भालस्थं भिन्नमस्या मृगमदतिलकं चारिणा चाक्षुक्षे(षे ) || ६९. निरन्तरं वर्षति भूमिमेघे प्रवाति वाते शिशिरे बहिस्तात् । पङ्काकुले भूमितले समन्तात् सीदन्ति गावस्तृणतोयमध्ये | ७०. भास्वद्भामण्डलेन त्रिजगदधिपतेर्द्वादशार्कैकजैत्रा ७१. निर्जिग्येऽसौ ततस्तद्व्यतिकरजनितात्यन्तभीतिप्रभावात् । दृष्ट्वा खद्योतपोतं लघुमपि नितरां चण्डभानुर्बिभेति यद्वत्सर्पेण दष्टो दवरकमपि संवीक्ष्य बाढं बिभेति ॥ दर्पाध्मातेन केन प्रवरतरकलाकौशलालोकनार्थं स्वस्यालेखि प्रकामं चणककणदले शिल्पिना हस्तियूथम् । तद् गर्वोच्छित्तिहेतोरतिनिपुणमतिस्फीतिनाऽन्येन सृष्टो देवाद्रिः संप्रविष्टः सह कुलगिरिभिर्मक्षिकानेत्रकोणे ॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86